________________ स्तवकः ] कल्पलतावतारिका [ 136 दिप्रतिभासेऽतिप्रसङ्गात , ततो न नीलद्विचन्द्रादिज्ञानयोः कश्चिद् विशेष:, नीलस्य विचार्यमाणस्यानुपपन्नत्वात् / अत्राहुः सिद्धान्तिनः स्याद्वादिन: - शून्यतातत्त्वसाधनं किञ्चित प्रमाणं विद्यते श्राहोस्वित शून्यमेव शून्यतासाधनं प्रमाणम् / शून्यं चेत् शून्यतायां प्रमाणम्, तदा सम्यग् व्यवस्थितं तत्त्वं शून्यवादिना, अवस्तुसता प्रमाणेन प्रमेयव्यवस्थितेः / अस्ति चेत प्रमाणं तत्साधकन्तदा शून्यतैव कथम् ? प्रमाणस्य तत्त्वरूपत्वात् , सकलपदार्थाभावसिद्धेरिति माध्यस्थ्यदृशा. सुधीभिर्विचारणीयम् / अधिकं स्याद्वादकल्पलतायां जिज्ञासुभिरवलोकनीयम्। तथा चोपसमहापुमहोपाध्यायाः श्लोकद्वयेन(कल्पलता) सौगत ! प्रणयिनीव नितान्तं, शून्यता तब न मुञ्चति चित्तम् / प्राज्ञपर्षदि न कधन हर्ष-स्तेन शून्यहृदयस्य तवास्ति // 5 // अन्वयः- सौगत ! प्रणयिनी, इंव, शून्यता. तव चित्तम् , नितान्तम् , 'न, मुञ्चति, तेन, शून्यहृदयस्य, तव, प्राज्ञपर्षदि, कश्चन. हर्षः, न, अस्ति / * (कल्पलतावतारिका) : सौगत ! शून्यवादिन् ! सुगततनय ! प्रणयिनी-प्रेमोद्रेकवती कान्ता / इव-यथा / शून्यता त्वदभिलषितपदार्थजातशून्यता / तवसुगतान्तेवासिनो भवत: / चित्तम्-अन्तःकरणम् / न-नहि / मुञ्चति-त्यजति / तेन तेन हेतुना। शून्यहृदयस्य-शून्यतासंवलितचेतसः / तव-सुगतशिष्यस्य भवतः / प्राज्ञपषदि-विद्वत्सभायाम् / कश्चन-कोऽपि / हर्षः-प्रमोदः / न-नहि / अस्ति-वर्तते /