________________ 138] शासवार्तासमुच्चयस्य [ षष्ठः - - अत्रायममीषां सम्प्रदायः-नीलादयो न परमार्थसद्व्यवहागनुपातिनः, विशददर्शनावभासित्वात, तिमिरपरिकरितगवभासीन्दु, द्वयवत् / नच चन्द्रद्वयज्ञानं बाध्यत्वाद् भ्रान्तम् . नीलादिज्ञानं त्व. बाध्यत्वाद् न तथेति साम्प्रतम् , बाध्यत्वानुपपतेः, तथाहि-बाधकेन न विज्ञानस्य तत्कालभाविस्वरूप वाध्यते, तदानीं तस्य स्वरूपेण प्रतिभासनात् नाप्युत्तरकालम् , क्षणिकत्वेन तस्य स्वयमेवोत्तरकाले. ऽभावात् / नापि प्रमेयं प्रतिभासमानेन रूपेण बाध्यते तस्य विशद. प्रतिभासादेवाभावासिद्धः अप्रतिभासमानेन तु रूपेण म्वत एव बाधः / ना पे प्रवृत्तिरुत्पन्ना बाध्यते, उत्पन्नत्वादेवासत्तायोगात्, अनुत्पन्नायान्तु स्वत एव बाधः / किञ्च बाधकं न बाध्यापेक्षया भिन्नसन्तानम् , अति. प्रसङ्गात् , एकसन्तामपि न तदेककालम् , असम्भवात् / न पि भिन्नकालमेकार्थम् , उत्तरघटज्ञानम्य पूर्वघटज्ञानबाधकतापत्तेः / नापि भिन्नार्थम् , उत्तरपटज्ञानस्य तथात्वापत्तेः, नाप्यनुपलव्धर्बाध्यज्ञानसमानकाला तद्वाधिका, तस्या असिद्धः / नाप्युत्तरकालभाविनी बान्यज्ञानै कार्थविषया एकविषयकस्य तदर्थसाधकत्वेनाबाधकत्वायात् , नापि विभिन्न विषया, तस्यास्तदानीं स्वविषयसाधकत्वेन बाध्यज्ञानविषयाभावासाधकत्वात् / नच दुष्टकारणप्रभवत्वेनेन्दुद्वयधिशेऽसत्या. र्थविषयत्वावगमो बाध्यत्वम् असद्धः, इन्द्रियेण दोषाग्रह त् / नच समानसामग्रीकस्य नरान्तरस्य तदग्रहणादितरत्र दुष्टकारणानुमानम् तिमिराभावात् , नरान्तरे सामग्रीसाम्यासिद्धः / नच मिथ्यारूपत्वेन तत्र दुष्टकारण जन्यत्वानुमानम् , इतरेतरानयात् / नचेन्दुद्वयज्ञानस्य विसंवादित्वादस्त्यत्वम् , समानजातीयतद्विज्ञानानुत्पन्तिरूपविसंवादस्य यावत्तिमिरमसिद्धेः, विजातीयज्ञानोत्पत्तेविसंगदत्वे च स्तम्भा