________________ स्तवकः / कल्पलतावतारिका - माध्यमिका इति यावत् / तु-पुनः / सर्वम्-निखिलम् / एव-अवधारणार्थकम् / शून्यम्-शून्यतामभावमापन्नम् / अवते-अभिदधति / यत्-यस्माद्धेतोः / वस्तु-पदार्थजातम् / युक्त्या-न्यायेन / विचार्यमाणं सदिति शेषः / न-नहि / नित्यम्-उत्पत्तिविनाशरहितम् / अनित्यम्-उत्पत्तिविनाशवत् / अपि-सम्भावनायाम् / न-नहि / उपपद्यते-युक्तियुक्तं भवतीत्यर्थः / - तथाहि -क्रमवद्विज्ञानादिकार्यकारित्वे भेदप्रसङ्गात् अक्रमवद्विज्ञानादिकार्यकारित्वे चैकदेव सर्वकार्योत्पत्तेः अथक्रियाकारित्वाञ्च नित्यं किमपि वस्तु न युक्तम् , अनित्यमपि कदाचित् किमपि न युक्तम्, उत्पादव्ययाभावात् नहि तौ ( उत्पादव्ययौ ) स्वत: परतः उभाभ्याम् अनिमित्तौ वा संभवतः आद्य कारणापेक्षाभावेन देशादिनियमाऽप्रसक्ते:, द्वितीयेऽपि सत्त्वे कारणवदुत्पत्तिविरोधात , असत्त्वे खरविषाणवदुत्पादनाशायोगात् उभयम्वभ वत्वे च विरोधात् / तृतीये चोभयदोषानुषङ्गात् "प्रत्येकं यो भवेदोषो द्वयोर्भावे कथं न सः" इत्युक्तत्वात् चतुर्थे, चानभ्युपगमात् / तदुक्तम् न स्वतो नापि परतो, न द्वाभ्यां नाप्यहेतुतः / . उत्पन्ना जातु विद्यन्ते, भावाः वचन केचन // 1 // इतिनागार्जुनविरचिते माध्यमिककारिकाग्रन्थे प्रत्यक्षपरीक्षा. प्रकरणे / नचैवं कथं पुत्रोत्पादज्ञाने सुखम् तद्ध्वंसे च ज्ञाते दुःखमितिवाच्यम् स्वापदशायामकृतसम्भोगायाः कन्यायाः सम्भो. गानुभववत् लौकिक्या उत्पादव्ययबुद्धेः परमार्थेन भ्रान्तत्वात् , ईदृश्या अपि बुद्धेरानन्दादिकारणत्वस्य स्वापदशायां फुमार्याः पुत्रजन्मादिबुद्धिवदनुभवसिद्धस्वात् /