________________ 136 ] शासवार्तासमुषपस्य [ षष्ठः तु यथाश्रुततत्त्वबोधनाभिप्रायेण अनित्यतामावनाभावनायैवमस्मदीये. रुच्यते तदुक्तम् “यत्प्रातस्तद् न मध्याहे, यद् मध्याहेन तनिशि। निरीक्ष्यते भवेऽस्मिन् हि, पदार्थानामनित्यता।" इति एतत्तात्पर्येण क्षणिकत्ववादः समीचीन: प्रतिभातीव / एवञ्चायमुपदेशः सम्यगेव बुद्धस्य / एवं क्षणिकत्ववादवत् विज्ञानमात्रवादोऽपि धनधान्यादिबाह्यपदार्थपरिष्वङ्गत्यागाय ज्ञाननयावधारणयोग्यान् भतिनिपुणान् विनेयान् काँश्चिदाश्रित्य वा विज्ञानमात्रवाददेशनेति विज्ञेयम् / विदि. ताखिलतत्वस्य निरुपधिपरदुःखप्रहाणेच्छामूलकदेशनाप्रवृत्तिशालिनः परैरिष्यमाणस्य बुद्धस्य सुवैद्यवत् परहितानुबन्धिप्रयोजनं विना द्रव्यासत्यमभाषिणोऽनन्तरमुक्तं न साम्प्रतमिति न किन्तु साम्प्रतमेवावसेयम् / यथाहि सुवैद्यः कटुकमप्यौषधं कटुकौषधपानभीतस्य परस्य प्रवृत्तयेऽकटुकमपि वदन् नाऽनाप्तः स्यात् , तथा बुद्धोऽप्यक्षणिकैकरूपं ज्ञप्तिमात्रास्वभावं च विनेयमतिपरिष्काराय तथावदन्नपि नानाप्तः स्यात् , अन्यथा तु स्यादेव तथा च तदाप्तत्वे तहे. शनाया अत्र तात्पर्यम् , अन्यथा तु तस्यानाप्तत्वमेवेति / शून्यवार्तामाह(शास्त्रवार्ता) ब्रुवते शून्यमन्ये तु, सर्वमेव विचक्षणाः / न नित्यं नाप्यनित्यं यद्, वस्तु युक्त्योपपद्यते // 54 // अन्वयः-अन्ये, विचक्षणाः, तु, सर्वम् , एव, शून्यम् , त्रुपते, यत्, युक्त्या , वस्तु, न, नित्यम् , अनित्यम् , अपि, म, उपपयते / (अव) अन्ये-अपरे। विचषणा:-विद्वांसः / वितण्डापण्डिता