________________ स्तवकः ] कल्पलतावतारिका [ 135 र्णवमुत्तरीतुं न शक्नोति शक्ष्यति वेति भावः / अत्र सुगततनयपक्षिणोः क्षणिकत्वपक्षयोश्वामेदारोपाद्रूपकमलङ्कारः / पूर्वार्द्धवाक्यार्थे उत्तरार्द्धवाक्यार्थस्य हेतुतयाऽभिधानात् काव्यलिङ्गञ्चालङ्कारः / अनयोर्निर. पेक्षतयैकत्रावस्थानात्संसृष्टिः। किश्च(कल्पलता) ... निरीक्ष्य साक्षादवलम्ब्यमानं, परैविशीणं क्षणिकत्वपक्षम् / स्थाद्वादविद्यामवलम्बनं भोः,श्रयन्तु विज्ञाः! सुदृढं हिताय // 4 // __अन्वयः-भोः विज्ञाः ! परैः, अवलम्ब्यमानम् , क्षणिकत्वपक्षम् , विशीणम् , साक्षात् , निरीक्ष्य, हिताय, अवलम्बनम् , स्याद्वादविद्याम् , सुदृढम् , अयन्तु / . (कल्पलतावतारिका) .... भो विज्ञाः !. अयि विद्वित्प्रवराः ! परैः-बौद्धैस्तद्विशेषैर्वा / अवलम्ब्यमानम्-सम्मश्रीयमाणम् / क्षणिकत्वपक्षम्-वस्तुजातसम्बधिक्षणिकतावादपतत्त्रम् / विशीर्णम्-विदारितम् विनाशितमिति यावत् / साक्षात्-प्रत्यक्षं यथास्यात्तथा / निरीक्ष्य-अवलोक्य / हिताय-कल्याणाय / अवलम्बनम्-श्राश्रयरूपम् / स्याद्वादविद्याम्अनेकान्ततन्त्रम् / सुदृढम्-सुनिश्चलं यथास्यात्तथा / श्रयन्तु-समवलम्वन्ताम् / रूपकं काव्यलिङ्गञ्चालङ्कारः / स्याद्वादविद्यैव सर्वथा मोक्षोपयोगिनी नत्वेकान्तविद्येति ध्वन्यते, तस्य च वाच्यार्थापेक्षयाऽ. धिकचमत्कारितया प्राधान्येनाश्रयणादुत्तम ध्वनिकाव्यमिदमवसेयम् / - माध्यमिका बौद्धविशेषा एवमभिदधति यदुत रागनिबन्धन. विषयनित्यत्ववासनापरित्यागाय 'सर्व क्षणिकम्' इति बुद्धेनोक्तम् , न