________________ 134 ] शास्त्रवार्तासमुच्चयस्य . [ षष्ठः अन्त एव तदर्शनं भवति नादौ प्रतिबन्धकसद्भावात घटोत्पत्तिक्षणो घटध्वंसाधिकरण: घटध्वसाधिकरणक्षणपूर्वक्षणत्वादित्यनुमानाचेति वाच्यम् घटोत्पत्तिप्राच्यक्षणेऽपि हेतोः सत्त्वेन साध्यस्याऽसत्त्वात् हेतोय॑भिचरितत्वात् , सादृश्यम्य भेदघटितत्वात , तद्भिन्नत्वे सति तद्गतधर्मवत्त्वस्यैव सादृश्यत्वात्, भेदप्रतीतेरभावे च त्वदुत्तस्यायुक्तत्वादिति संक्षेपः। अत्राहुरुपाध्यायप्रवरा:(कल्पलता) इतस्ततो नोड्डयनं विधातुं, पक्षी समर्थः सुगतात्मजोऽयम् / विसृत्वरस्तार्किकतर्कशक्त्या, यतो विलूनः क्षणिकत्वपक्षः // 3 // अन्वयः-अयम् , सुगतात्मजः, पक्षी; इतस्ततः, उड्डयनम् , विधातुम् , समर्थः, न, यतः, तार्किकतर्कशक्त्या, विसृत्वरः, क्षणिकत्वपक्षः, विलूनः / (कल्पलतावतारिका) अयम्-एष: / सुगतात्मजः-बुद्धतनयः / पक्षी-क्षणिकत्वरूपपक्षवान् विहगः / इतस्ततः-स्थानात्स्थानान्तरम् / उड्डयनम्उत्प्लवनम् / विधातुम्-कर्तुम् / समर्थः-शक्त: प्रभुरिति यावत् / न-नहि / भवितेति शेषः। यतः-यस्मात्कारणात् / तार्किकतर्कशक्त्यानैयायिकसम्बन्धितकरूपास्त्रेण / क्षणिकत्वपक्षः-क्षणिकत्वरूपं पतत्रम् / विलूनः-विच्छिन्नः, विच्छेदमापादितः / यथा मृगयुप्रहितबाणादिच्छिन्नपक्षो विहग एकस्मात् स्थानात् स्थानान्तरमुड्डीय गन्तुं न समर्थो भवति तथा नैयायिकतर्करूपशक्ति (शस्त्र) विशेषविच्छन्नक्षणिकत्वसहायः सुगततनयो निवेशप्रवेशादिना शास्त्रार्थमहा