________________ स्तषकः ]. कल्पलतावतारिका [ 133 व नित्यताया असम्भवात् , न हि भवति शाखायां शाखात्वावच्छे. देन कपिसंयोगाभावः, वृक्षत्वावच्छेदेन कपिसंयोग इति किश्चैवं नित्यत्वादिज्ञानम्यानित्यत्वादिध प्रतिबन्धकताया अव्याप्यवृत्तित्वज्ञा. युत्तेजकत्वं वाच्यमिति गोरवमिति कथयन्ति / अत्राहुः सिद्धान्तिन: प्रत्यभिज्ञैव वस्तुनो नित्यानित्यत्वे मानम्, पूर्वोत्तरतत्तेदन्तास्व. भावभेदानुविद्धस्यैवोलतामामान्याख्याभेदस्य तया विषयीकरणात् / नच तत्तेदन्तोभयनिरूपित कस्वभावमेव तत्, भिन्न काले तदभावादेव च तदननुभव इति युक्तम् , "इदानीं तत्रास्वभाव मिदम्” इति व्यवहारप्रामाण्यप्रसङ्गात् / किञ्च विशिष्टात्यन्ताभाववद् विशिष्टध्वंसोऽपि परेणाकामेनापि स्वीकर्तव्यः, " शिखी विनष्टः" इति प्रतीतेरन्य. थाऽनुपपत्तेः / प्रतियन्ति च लोका अपि नित्यानित्यत्वं वस्तुन:"घटरूपेण मृद्रव्यं नष्टं, मृद्रूपेण न नष्टम्' इति घटरूपेण घटो नष्टः न तु मृद्रूपेण इत्यादि, अधिकं स्याद्वादकल्पलतायामवलोकनीयम् / : क्षणिकत्वसाधकं "क्षयेक्षणात्" इति पूर्वमुपन्यन्त. तुरीयं हेतुमधुना निराकरोति सिद्धान्तशिरोमणिराहतमुख्य: सूरिराट्। तथाहि -यत्पूर्व क्षणिकत्ववादिभिः अन्ते क्षयदर्शनं प्रथमक्षणे वस्तुनः सर्वथा नाशस्यानुमापक मति प्रोक्तम्, तन्न समीचीनम् , तस्यैव वस्तुनोऽन्त एव क्षयस्वभावत्वात् , अन्ते क्षयदर्शनम्य प्रथमक्षणनाशानुमापकत्वाभावात् , अन्यथाऽतत्स्वभावत्वात् / यदि प्रथमक्षण एव नाशस्वभावं वस्त्वभ्युपगम्यते, तर्हि अन्त एव क्षयदर्शनं कथम् , पादावेष फुतो न तदर्शनं स्यात्, न च भवति ततः प्रथमक्षणे क्षयस्वभावता नाभ्युपगन्तव्येति / न च सदृशोत्तरोत्तरक्षणप्रतिरोधात्