________________ स्तवकः ] कल्पलतावतारिका [ 131 तच्छक्त्यभावनातिप्रसङ्गात, पूर्वक्षणस्यैव चोत्सरक्षणरूपतया भवनेऽ. न्त्रयः कथम सिद्धः, भावाविच्छेदस्यैवान्वयात् ? किश्च प्रस्तुतभावानां क्रियात्मिका भूतिर्भवतोक्ता सा भूतियायतः कचिद् न युज्यते, कर्तृभोक्तृस्वभावत्वविरोधात् , सा किं कर्तृ: स्वभावा वा स्याद् भोक्तृस्वभावा वा ? कर्तृस्वभावत्वे न भोक्तृस्वभावत्वम् , भोक्तृस्वभावत्वे न कर्तृत्वं स्यात् / नच कर्तृस्वभावत्वमेव भोक्तृस्वभावत्वम्, घटकलशादिपदानामिव कर्तृभोक्तृपदयोरभिन्नप्रवृत्तिनिमित्तकत्वेन पर्यायत्वापातात् चरमस्य कर्तृत्वाभावाच्च भावे, वा चरमत्वविरोधात् नचादौ कर्तृस्वभावैव अन्ते च भोक्तृस्वभावा मध्ये तूभयस्वभावेतिवाच्यम् द्वैरुप्यविरोधात् / एवञ्च क्षणिकत्वसाधको द्वितीयोऽपि हेतुर्निरस्तः / . क्षणिकत्वसाधकस्तृतीयोऽपि परिणामात्मको हेतुः पूर्वप्रदर्शितः सुगततनयैरयुक्तस्तथाहि - अतादवस्थ्यलक्षण: परिणामोऽपि क्षणिकत्वसाधने (निरन्वयनाशसाधने) न समर्थः सर्वकालमेव बालकुमारादि भावेन घटशरावादिभावेन च विभिन्नरूपत्वेऽपि देहमृदादिभावो. पलब्धेः / अयमाशयः चित्रज्ञाने नानाकारोपलम्भेऽप्येकरूपोपलम्भात् यथा चित्रैकरूपताऽविरोधस्तथा परिणामित्वेन भेदसिद्धावपि सोऽयं देहः' इत्याद्यभेदोपलम्भाद् न स्थैर्यबाधः, अनुभवसिद्धयोर्भेदाभेदयोरपि समावेशात् / एवञ्च यस्मात्कारणात् न सर्वथाऽर्थान्तरगमनम् नचैकान्तेनार्थान्तरागमनम् एतादृशः परिणामः पण्डितैः स्वीकरणीयः - "तद्भावः परिणामो यत् तत्तेन तथाभूयते” इतिवचनात् / युक्तमेतत् सुवर्ण हि कुण्डलतया परिणममानं न सर्वथैव कुण्डलभावं भजते, सुवर्णरूपस्यापि परित्यागापत्तेः, नच सर्वथा न भजतेऽपि अकुण्ड.