________________ 130 ] शास्त्रवार्तासमुच्चयस्य [ षष्ठः - घटादिः स्वहेतोरेव सकाशाज्जायते” इत्येतत्स्वीकरणीयमेवः। किश्च नाशस्य निर्हेतुकत्वस्वीकारे हिंसकस्य हिंसकत्वं न युज्यते, केनचिल्लुब्धकादिना कचिदरण्यादौ कस्यचिच्छूकरादेापादनस्याभावात्, अहिंसादशायामिव हिंसादशायामपि प्राणिक्षणानां स्वत एव नश्वरत्वात् सांवृत (काल्पनिक ) नाशस्य च गगनकमलिनीवदनुत्पाद्यत्वात् / शूकरादिविसभागसन्तानोत्पादस्य कारणत्वात, तस्य शूकरादिव्यापादकस्य हिंसकत्वं न स्यादिति चेत् सन्तानसमुत्पत्तेस्त्वदभिप्रायेण सम्भवात्, तस्य ( सन्तानस्य ) गगनकुसुमवदपरमार्थत्वात् व्ययोत्पादाभावात् उत्पादस्य सन्तानाधर्मत्वात् सन्तानविशेषप्रभवेऽहेतुत्वा. दित्यधिक स्याद्वादकल्पलतायामवलोकनीयं जिज्ञासुभिः / यच्च क्षणिकत्वे " अर्थक्रियासमर्थत्वात् " इति द्वितीय कार. णमुपन्यस्तं तदपि खण्डयते तावदार्हतैस्तथाहि यत्तैः क्षणिके (निरन्वयनश्वरे वस्तुनि ) अर्थक्रियासमर्थत्वमुक्तम्, तन्न युक्तम् , तदुत्पत्यनन्तरं नाशात्, ततः किमायातमिति चेत्, यतोऽसावर्थक्रियाजनकत्वाभिमतः पदार्थ एव वा स्यात्, तदनन्तरभावी पदार्थ एव वा स्यात् , द्वाविमौ प्रकारावत्र सम्भवतस्तत्र नाद्यः पक्ष: समीचीन: अर्थक्रियायास्तदात्मकत्वेऽर्थक्रियायां सामर्थ्यायोगः, अखिलस्वधर्मान्वितस्य तस्य स्वहेतोः समुद्भवात् / नापि द्वितीयः अर्थक्रियायाः स्व भिन्नत्वेऽभ्युपगम्यमानेऽन्यस्य हेतोरन्यत्रार्थक्रियायां सामर्थ्यमित्य. युक्तम्, सामर्थ्यसामर्थ्यवतोरभेदात् , सामर्थ्यवदन्यत्र तदभावात् , दण्डादेः सकाशात् घटाद्युत्पाद एव सामर्थ्यमिति चेन्न, उपादानमन्तरेणान्यभावस्यान्याय्यत्वात् / कुतोऽन्याय्यत्वमिति चेदत्रोच्यतेयस्मादन्यसत्त्वस्थितावपि किमुत तन्निवृत्तौ असत् सद् न जायते,