________________ कस्पलतावतारिका [ 126 (अव) पत्-यस्माद्धेतोः। हेतुम्-कारणम्, मुद्गरादिकमितियावत् / प्रतीत्य-प्रतीतिं विधाय / असौ-भावः / तथानश्वर:-प्रायोगिकादिनाशापेक्षया नश्वरस्वभावः / इष्यते-इच्छाविषयीक्रियते / दृष्टान्तेन समर्थयति-यथैवेति, यथा-येन प्रकारेण / एव-अवधारणर्थकम् / भवतः- सुगततनयस्य / हेतु:-घटादिः / विशिष्टफलसाधक मुद्ररादिकं प्रतीत्य विजातीयकपालादिक्षणजननस्वभाव इष्टः / एवञ्च तथास्वभाव एवासो घटादिः स्वहेतोरेव सकाशाज्जायते, यः सहकारिणं मुद्रादिकमासाद्य विजातीयकपालादिकार्यकारी भवति सहकारिमुद्राद्यपेक्षस्यैव हि घटक्षणस्य समानक्षणोत्पादनासमर्थाऽसमर्थतराऽसमर्थतमादिक्षणान्तरोत्पादनप्रकमेण 'घटसंततिनिवृत्तौ कपालादिक्षणोत्पत्तेरभ्युपगमात् / तेन मुद्गरादिना सहकारिणा घटस्य किश्चिदतिशयाधान न क्रियते, द्वयोः सहकार्यसहकारिणोरेककालोत्पत्तिकत्वात् / अतिशयस्य च सहकार्यगतस्य तत्स्वरूपत्वात्, कार्यकारणभावस्य च पौर्वापर्य्यनियतत्वात् , तथा च तव शास्त्रे"उपकारी विरोधी च, सहकारी च यो मतः / प्रबन्धापेक्षया सर्वो नैककाले कथञ्चन" इति, एवञ्च तव मते स्वसभागक्षणोत्पत्तिर्हि उपकारः स्वविसभागक्षणोत्पत्तिश्च विरोधः स्वोत्पत्तिरेव च सहकार इति चोच्यते / सहकार्यसहकारिणोः समानकालत्वात् यद्यपि घटस्य सहकारिकतो विशेषो नास्ति तथापि फलम्य कपालादेः सहकारि. कतातिशयप्राविलक्षणक्षणाभिन्नाया विशेषो विद्यत एव, तदपेतयैव घटक्षण मुद्ररक्षणयोः सहकार्यसहकारिभावादिव्यवह रात्, इदं चोक्त पभोलस्वभावाभ्युपगम विना न निर्वहेदिति "तथास्वभाव एवासौ