________________ 128 ] शास्त्रवार्तासमुच्चयस्य [षष्ठः - वक्तुमशक्यत्वादिति वाच्यम् ' उत्पत्तिस्वभाव' इत्यस्याऽभूत्वा भवनलक्षणोत्पत्तिरेव स्वभावो यस्येत्त्यर्थेऽभूतस्य भवनायोगेनोक्तदोपनिवृत्तावपि उत्पत्तौ सत्तायां स्वभाव आभिमुख्यलक्षणो यस्य नियतहेत्व. न्तरभाविन इत्यर्थे दोषाभावात्, तथैव तदव्यपदेशोपपत्तेः, द्वितीयविकल्पस्य चानभ्युपगमादेव, अनुत्पत्तिस्वभावस्य सर्वसामर्थ्याभावलक्षणस्यानुत्पाद्यत्वादेव / नद्युत्पत्तिहेतवोऽभावं भावीकुर्वन्तीत्यभ्युपगम्यते, 'असदुत्पद्यते ' इत्यस्य -- उत्पद्यमानं प्राग्नास्ति' इत्येवार्थात् / स्वीकृतायाश्च प्राग्नास्तितायां भावाश्रयाणां विकल्पानां शशविषाण इव तीक्ष्णतादिविषयाणां सम्भवः / नच 'भावधर्मत्वाविशेषात् नाशवदुत्पत्तेरपि किं न निर्हेतुकत्वम् ? इति शङ्कनीयम्, उदयापवर्गिणो भावाद् व्यतिरिक्तस्य नाशस्याभावात् / तस्य च स्वहेतोरेव तथाभूतस्योत्पन्नत्वेन तद्धर्मस्यानिमित्तत्वाभावात्, केवलमस्य तं स्वभाव न विवेच. यति मन्दधी:, दर्शनपाटवाभावात् , विसदृशकपालादिक्षणोत्पत्तावेव भ्रान्तिकारणविगमेन प्रत्यक्षनिबन्धनतन्निश्चयोत्पादात् विषयल्प. दर्शनेऽप्यतत्कारिपदार्थसाधर्म्यविप्रलब्धस्य प्राकारणशक्त्यविवेच. नेऽपि विकारदर्शनानन्तरं तन्निश्चयवदिति, एवञ्च क्षणिकत्वप्रसाधक नाशहेतोरयोगित्वं समायातमेव / एतद् न युक्तम् / तथा च सिद्धान्तिनः हेतुमिति(शास्त्रवार्ता) हेतु प्रतीत्य यदसौ, तथा नश्वर इष्यते / यथैव भवतो हेतु-विशिष्टफलसाधकः // 3 // अन्वयः-यत्, हेतुम् , प्रतीत्य, असो, तथा, नश्वरः, इष्यते, यथा, . एव, भवतः, हेतुः, विशिष्टफलसाधकः / ..