________________ स्तवकः ] कल्पलतावतारिका [ 137 .... चतुर्थस्तवकेऽन्तिमकारिकायां "सर्वमेतेन" इत्याद्यतिदिष्टमभिधित्सुराहसूरिवरः- यच्चोक्त मिति - ( शास्त्रवार्ता० ) यच्चोक्तं पर्वमत्रैव. क्षणिकत्वप्रसाधकम् / नाशहेतोरयोगादि, तदिदानी परीक्ष्यते // 1 // __ अन्वयः-यत्, च, पूर्वम् ; अत्र, एव, क्षणिकत्वप्रसाधकम् , नाशहेतो; अयोगादि, उक्तम्, इदानीम, तत्. परीक्ष्यते / / (अव०) यत्-बुद्धिविषयीभूतम् / च-पुन: / पूर्वम्-प्राक् / अत्र-अस्यां सुगतवार्तायाम् / एव-अवधारणार्थकम् , तेनेतरत्रोक्तत्वव्यवच्छेदः फलति / क्षणिकत्वप्रसाधकम्-वस्तुजाते क्षणमात्रवृत्तिध्वंसप्रतियोगित्वसाधनपरम् / नाशहेतोः-विनाशकारणस्य / अयोगादि-नाश्येनासम्बन्धादि / उक्तम्-"तयाहुः क्षणिकं सर्वम्" इत्यादिकारिकया पूर्वपक्षिभिः प्रोक्तम् / इदानीम्-प्रतिबन्धकजिज्ञासाविषयनिरूपणोत्तरमधुना। एतेन निरूप्यमाणेऽवसरसङ्गतिः सूचिता भवति / तत्-बुद्धिविषयीभूतनाशहेत्वसम्बन्धादि / परीक्ष्यते-परीक्षाविषयीक्रियते, परीक्ष्य खण्ड्यते इति भावः / _ तथाहि-हेतोः सकाशाद् नश्वरो भावः स्याद् अनश्वरो वा ? इति विकल्पयुगलमुत्थापयत् नाशहेतोरयोगित्वं क्षणिकत्वप्रसाधक परेणोच्यते, आद्ये स्वतो नश्वरे नाशहेतूनामकिश्चित्करत्वेन तथात्वात्। नचोत्पादेऽप्ययं पर्यनुयोग: ( प्रतिप्रश्नः ) शक्यः कर्तुम् , स्वभावतो ह्युत्पत्तिस्वभावे उत्पत्तिहेतुव्यापारवैयात् अनुत्पत्तिस्वभावस्य च