________________ 126 ] शास्त्रवार्तासमुच्चयस्य ____ अन्वयः-जरा, यत्स्नात्रनीरेण, नरायणस्य, भटानाम् , पराभवाय, न, जाग्रत्प्रभावम् , भगवन्तम् , एतम् , शङ्खश्वराधीश्वस्म , आश्रयामः / (कल्पलतावतारिका) जरा-जरासन्धऽऽपादितवार्द्धक्यम् / यत्स्नात्रनीरेण-यदीया. भिषेकसम्बन्धिजलेन। नरायणस्य-नराः सकलजना अयनं निवास. स्थानं यस्य स नरायणो यद्वा 'आपो नरा इति प्रोक्ता अयनं गृहमुच्यते' इत्युक्तेर्जलेशयत्वान्नरायणो, नरायणः श्रीकृष्णावासुदेव इति यावत् तस्य तथा / भटानाम्-योधानाम् / पराभवाय-पराजयाय / न-नहि / अभूदितिशेषः / यदीयस्नात्रजलाभिषेकमात्रेण,कृष्णवासुदेव-योधजना जरासन्धसम्पादितजराप्रयोज्यपराभवजनितक्कैशलेशमपि नान्वभूवनितिभावः / जाग्रत्प्रभावम्-जाज्वल्यमानप्रतापम् / भगवन्तम्- षड्वि धैश्वर्य्यविलसितम्। एतम्-बिम्बत्वेन प्रत्यक्षमवलोक्यमानम्। शङ्खस्वराधीश्वरम्-श्रीशङ्केश्वरपार्श्वनाथम् / आश्रयामः-सेवामहे / वयमिति शेषः। द्वितीयवाक्यार्थ प्रति प्रथमवाक्यार्थस्य हेतुतयाऽभिधानात काव्यलिङ्गमत्रालङ्कारः / श्रीपार्श्वनाथविषयकः / कविगतो रत्याख्यो भावोऽभिव्यज्यते प्राधान्येनेतिध्वनिकाव्यमिदमवसेयम् / जरासन्धेन सह श्रीकृष्णस्य संख्ये सञ्जाते श्रीकृष्णस्य पराभवाय जरासन्धेन जराशमं मुक्तम् / तेन श्रीकृष्णभटा जराजर्जरीभूता अभवन् / तद् दृष्ट्वा शोकसागरनिमग्नोऽभव द्विष्णुः। अथ श्रीकृष्णेन जरापाकरणायोपार्य पृष्टः श्रीनेमिनाथः। भगवताऽऽषाढिश्राद्धेन गतोत्सर्पिण्यां कारितं भावि. श्रीपार्श्वजिनबिम्ब नागलोकस्थितमष्टमतपसाऽत्राकर्षणीयम् तत्स्नात्रवारिणा जरा भविष्यति जर्जरीभतेति कथितम् / तथैवविहितं विष्णुनेति भावः।