________________ 124] शास्त्रवार्तासमुच्चयस्य [षष्ठः * अथ षष्ठः स्तवकः *. तत्रादौ मङ्गलसूक्तयुगलम् / तत्रापि प्रथमं श्रीमहावीरस्वामिस्तुतिरूपं दृप्यदित्यादि(कल्पलता) दृप्यद्यन्नखदर्पणप्रतिफल-द्वक्त्रेण वृत्रद्रुहा, शोभा काऽपि दशावतारसुभगा, लब्धाऽनुजस्पर्धिनी / मुक्तिद्वारकपाटपाटनपटू, दौर्गत्यदुःखच्छिदौ, तावंही शरणं भजे भगवतो, वीरस्य विश्वेशितुः // 1 // अन्वयः-दृप्यद्यन्नखदर्पणप्रतिफलद्वक्त्रेण, वृत्रद्रुहा, दशावतारसुभगा, अनुजस्पर्धिनी, कापि, शोभा, लब्धा, मुक्तिद्वारकपाटपाटनपटू, दौर्गत्यदुःखच्छिदो, विश्वेशितुः, भगवतः, वीरस्य, तौ, अंही; शरणम् . भजे / (कल्पलतावतारिका) ___ दृप्यद्यन्नखदर्पणप्रतिफलद्वक्त्रेण-ययोः श्रीमहावीरचरणयोर्नखा नखरा यन्नखाः, दृप्यन्तः / अलौकिककान्तिनिचयप्रयोज्यपरमदर्पभावमापन्नाश्च ते यन्नखा हप्यद्यन्नखास्त एव दर्पणा श्रादर्शास्तेषु प्रतिफलत् प्रतिबिम्बायमानम्, यन्नखदर्पणप्रतिफलत, तादृशं वक्त्रं वदनं यस्य स दृप्यद्यन्नखदर्पणप्रतिफल द्वक्त्रः तेन तथा / यदीयचरणप्रणतेनेतिफलितम् / वृत्रQहा--वृत्रासुरवधकारिणा, तद्वधपापापचितकान्तिनाऽपीन्द्रेणेति यावत् / दशावतारसुभगा-एककालावच्छेदेन दशभिरवतारैः कमनीया / ( अत एव ) अनुजस्पर्धिनी-अनुजम्, विष्णुम्, इन्द्रानुजम्, स्पर्धते तच्छीला, अन्तर्भावितणिगर्थत्वादनुजस्पर्धाकारणस्वभावेत्यर्थः, "अजातेः शीले" 5-1-154 इत्नेन शीले