SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ स्सवकः ]. कल्पलतावतारिका [ 123 विनाशितः, दूरीकृत इति यावत् / विज्ञप्तिवादः-विज्ञानमात्रवादः / त्याज्य:-मुक्त्यनुपयोगितया हेयः। सद्भिरिति शेषः / अत्र दृष्टान्तालङ्कारः / "इष्टार्थसिद्धचैदृष्टान्तो निदर्शना" इति काव्यानुशासने तल्लक्षणम् / यथा हंसैः समपद्म त्याज्यम्, यथा वा श्रोत्रियैश्चाएडालानां जलमपेयम्, यथा वा सज्जनैर्दुर्जनगोष्ठी त्याज्या तथा सद्भिर्विज्ञानमात्रवादस्त्याज्य एवेति दृष्टान्तस्य दर्शनात् / . विज्ञानमात्रमेवेदं, योगाचारप्रपञ्चितम् / मतं निर्मथ्य सत्सत्ता-बोधोऽसौ पञ्चमःस्तवः / / 5 / / / इति शासनसम्राट्-तपागच्छाधिपति-सर्वतन्त्रस्वतन्त्र-जगद्गुरुबालब मचारिभट्टारकाचार्यमहाराजश्रीविजयनेमिसूरीश्वरमहाराजपट्टालङ्कार-1 / शास्त्रविशारदकविरत्नप्रीयूषपाणिपूज्यपादाचार्यश्रीविजयामृतमरिवर। सन्दब्धायां महोदधिकल्पशास्त्रवार्तासमुच्चय - कल्पलतानुसारिण्यांकल्पलतावतारिकायां पञ्चमः स्तवकः /
SR No.004491
Book TitleKalplatavatarika
Original Sutra AuthorN/A
AuthorAmrutsuri
PublisherJain Sahityavardhak Sabha
Publication Year1958
Total Pages322
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy