________________ 122 ] शास्त्रवार्तासमुच्चयस्य . [पञ्चमः मतिः, आप परिगलपर्णम पिवेत, दुष्टानां हन्त ! गोष्ठीमनुसरति रसात्, सज्जनः किं गताओं, त्याज्यस्तज्जैनतकैरयमिह निहतो, विज्ञ ! विज्ञप्तिवादः // 6 // .. अन्वयः-हंसः, परिगलपर्णम् , सद्मपद्मम् , यति, किम् , वा, पिपासाकुलितमतिः, अपि, श्रोत्रियः, कदाचित् , चाण्डालानाम , अर्णः, पिबेत्, किम् , ? हन्त ! सज्जनः, गतार्थाम् , दुष्टानाम् , गोष्ठीम , अनुसरति, किम् , तत्, विज्ञ ! इह, जैनतकैः, निहतः, अयम् , विज्ञप्तिवाद:, त्याज्यः / (कल्पलतावतारिका) ___ हंसः-मराल: / परिगलत्पर्णम्-परिंगलन्ति सर्वतोभावेन निप. तन्ति पर्णानि पत्राणि यस्मात्तत्तथा / सद्मपनम्-सदनस्थितकमलम् / श्रयति-आश्रयति / किम्--वितर्कार्थकमव्ययम् / निषेधार्थकं वा / 'किं कुत्सायां वितर्के वा निषेधप्रश्नयोरपि' इतिमेदिनी। वा-अथवा / पिपासाकुलितमतिः-पिपासाव्याकुलितचेताः / अपि-सम्भावनायाम् / श्रोत्रियः-छन्दोध्यायी ब्राह्मणः / कदाचित्-कस्मिंश्चित्समयेऽपि / चाण्डालानाम्-पुलिन्दानाम् , अस्पृश्यानामितियावत / अर्णः-जलम् / 'नोरं... .. जीवनजीवनीयसलिलाणी-स्यम्बु ....4- 135 / इत्यभिधानचिन्तामणिः। पिवेत्-पीयेत / किम्-वितर्काद्यर्थकमव्ययम् / हन्त-खेदार्थकमव्ययम् / गतार्थाम्-गातोऽर्थः प्रयोजनं यत: सा गतार्था, तान्तथा, निष्फलामिति यावत् / दुष्टानाम्-दुर्जनानाम्. असत्पुरुषाणामिति यावत् / गोष्ठीम्-कथाम् / अनुसरति-अनुगचति / किम्-वितर्काद्यर्थकमव्ययम् / त्रिध्वपि “अपि तु न" इत्येवमवसेयम् / तत्-तस्मात् कारणात् / विज्ञ-विद्वम् ! इह-तत्त्व विचारणायाम् / जैनत-आईतयुक्तिभिः / निहतः-विशेषेण हतो