________________ स्तबकः ] . कल्पलतावतारिका [ 121 चित्तक्लिष्टता, येन तजनकबाह्यार्थसिद्धिः स्यादितिवाच्यम्, तस्य शानादन्यूनानतिरिक्तत्वे मुक्तेरनुपपत्ते / तथा च सूरिप्रवरा:(शास्त्रवार्ता०) मक्त्यभावे च सर्वैव. ननु चिन्ता निरर्थिका / भावेऽपि सर्वदा तस्याः, सम्यगेतद्विचिन्त्यताम् // अन्वयः-मुक्त्यभावे, च, सर्वा, एव, चिन्ता, निरर्थिका, ननु, तस्याः, सर्वदा, भावे, अपि, एतत्, सम्यक, विचिन्त्यताम् / ___(अव०) मुक्त्यभावे-एकान्ततो मोक्षराहित्ये / च-त्वर्थकमव्ययम् / सर्वा-निखिला / एव-अवधारणार्थकम् / चिन्ता-तत्त्ववि. धारणा। निरर्थिका-निष्प्रयोजना,व्यर्थेतियावत् / तपरिवनामितिशेषः / समस्ताया एव तस्याः (तत्त्वविचारणायाः) मोक्षकपरमप्रयोजनत्वात् / ननु-ध्र वम् / तस्या:-बोधरूपाया मुक्तेः / सर्वदा-सर्वकालावच्छेदेन / भावे-सत्तायाम् / अपि-सम्भावनायाम् / चिन्ता निरर्थिक वेतिशेषः / साध्यस्य सिद्धत्वात् / एतत्-सर्वमिदम् / सम्यक्-समीचीन यथास्यात्तथा / विचिन्त्यताम्-विविच्यताम् / . . यस्मादुक्तरीत्या न्यायेन विचार्यमाणो विज्ञानवादो नोपपद्यते, तस्मादत्र विज्ञानवादेऽपि कल्पनानिपुणस्य पुंस: कदाग्रहो न युज्यते / तथा चाहुरुपाध्यायाः-हंस-इति(कल्पलता) हंसः किं सब पद्म श्रयति परिगलत्पर्णमणः पिबेद्वा / चाण्डालानां पिपासाकुलितमतिरपि, श्रोत्रियः किं कदाचित् //