________________ 120 ] शास्त्रवार्तासमुच्चयस्य तदपेक्षा च संवित्त-मता या कर्तृरूपता / साप्यतत्त्वमतः संवि-दद्वयेति विभाव्यते // 2 // न चाकर्मको न कश्चित् प्रयोग इष्ट इति वाच्चम् 'आस्ते शेते' इत्यादावासनाक्रियाणामकर्मकत्वेन प्रयोगस्य दर्शनात् , इति चेदत्रो. च्यते-गगनतलवालोककल्पनायां प्रकाशैकस्वभावत्वानिर्विषय तदात्मानमपि न प्रकाशयेत्, अतो विज्ञानस्य प्रकाशैकस्वभावताया अयुक्तत्वात् / किञ्च जगतो विज्ञानमात्रत्वेऽभ्युपगम्यमाने संसारापवर्गयोः कश्चन विशेषो नोपपद्यत, ज्ञानमात्रस्योभयदशयोरविशेषात्, अधिकस्यापवर्गावस्थायां प्राप्यस्य कस्यचिद्वस्तुनोऽभावात् भावे वाऽद्वैतव्याघातात्, रागादिक्लेशवासितचित्ततद्विनिर्मुक्तचित्तयोः संसारापवर्गरूपत्वात्, यस्माद्रागादिक्लेशवर्गो विज्ञानात् पृथग् न मतो द्वैतापत्तेः, एकान्तैकस्वभावे च तस्मिन् विज्ञाने किं केन वासितं स्यात् वासकाभावात् / अथ रागादिक्लेशवर्गो विज्ञानमेव न तु ततो भिन्नः एवश्वाक्लिष्टत्वं क्लिष्टभिन्नत्वं न तु पृथग्भूतक्लेशादिराहित्यमिति न दोषः, अक्लिष्टस्य प्राप्यस्य सत्त्वाच नापवर्गप्रवृत्त्यनुपपत्तिरिति चेदत्रो. च्यते-नीलीद्रव्याद्युपरागात् पटादिक्लिष्टतावत् संसारचित्ते यद्वशात् क्लिष्टता, असौ ( चित्तक्लिष्टतापादकः ) ज्ञानवदेव पृथग्यस्त्वापद्यते क्लिष्टताया उभयजनितत्वात्, तथा पटशुद्धिवत् ( यथा पटादेर्नील्यादिद्रव्यसंसर्गापगमे प्राक्तनम्वरूपाविर्भावस्तद्वत् ) क्लिष्टतापादकस्य मुक्ती भेदेन स्वरूपाविर्भावलक्षणो भावः स्यात्, ततो भवदनभिमता बाह्यार्थतासिद्धिः . संप्रसज्येत, तेनाक्लिष्टत्वं क्लेशराहित्यं क्लिष्टभिन्नत्वं वोच्यताम्, नोभयथापि विशेषः, प्रतियोगिनस्तदवच्छेदकस्य वा पृथग्भावावश्यकत्वेऽद्वैताऽसाम्राज्यात् / न च पटादेः क्लिष्टताव न