________________ स्तवकः ]. कल्पलतावतारिका / 116 'स घटः' इत्यादिस्मरणात् ' 'सोऽयं घटः' इति प्रत्यभिज्ञायाश्च न ज्ञानमात्रं जगत् , बुभुत्सादिरूपकौतुकयोगाच्च न ज्ञानमात्र जगत् , न चासत्यर्थे तुरङ्गश्रृङ्गादाविव बुभुत्सादिकमित्यवसेयम् / किश्चान्यथापि योगाचारमतं न युक्तिसङ्गतम् ज्ञानमात्रे जगत्यभ्युपगम्यमाने "विज्ञानं ज्ञानमेव घटादि" इत्येतत् स्यात्, परिच्छेचान्तराभावात्, ततश्च लोकशास्त्रयोः प्रसिद्धं घटार्थिस्वर्गार्थियत्नादि नोपपद्येत, ज्ञानान्यघटादिग्रहणे चाभ्युपगम्यमाने ज्ञानस्यार्थेऽनभ्युपगमलक्षण: प्रद्वेषो निनिमित्त: स्यात्, ज्ञानान्तरेऽपि तदसंवेदनादेस्तुल्यत्वात्, अर्थस्य युक्त्ययोगश्च ग्राह्यादिभावविकल्पेन ज्ञानवादेऽपि तुल्यः, तत्पक्षनिराकरणव्यापाराविशेषात्, तथाहि ज्ञानं हि माझमात्रस्वभावम्, प्राहकमात्रस्वभावम् , उभयस्वभावम् अनुभयस्वभाव वा तत्र नाद्यः पक्षो युक्तः, भुवि ग्राहकस्वभावस्य कस्याप्यभावात्, सम्बन्धिशब्दस्य सम्बन्ध्यन्तरमन्तरेण प्रवृत्त्ययोगात् / न द्वितीयः पक्षोऽपि, भुवि ग्राह्यस्वभावस्य कस्याप्यभावात्, सम्बन्धिशब्दस्य सम्बन्ध्यन्तरमन्तरेण प्रवृत्त्ययोगात् / नापि तृतीयः पक्षोऽपि सङ्गतः, विरोधात्, एकस्य ग्राह्यग्राहकाकारोभयविमिश्रणेन द्वित्वविरोधादिति यावत् / नापि चतुर्थोऽपि स्वभावसामान्याभावादसत्त्वापत्तेरितिपूर्वोतप्राह्मादिभावविकल्पोऽवसेयः / अथ प्रकाशैकस्वभावं ( गगनतलवृत्त्यालोककल्पम् ) विज्ञानं परमार्थतो विचाराक्षमत्वेन ग्राह्यस्याभावात् तदपेक्षाप्रकल्पितग्राहकस्वाभावात् कर्तृकर्मभावोपरागरहितं मन्यताम्, एवञ्च तद्विज्ञानं स्वसं. विदितमेव प्रकाशते, तदुक्तम् नीलपीतादि यज्ज्ञानं, बहिर्वदवभासते / तद् न सत्यमतो नास्ति, विज्ञानं तत्त्वतो बहिः॥१॥