________________ 118] शास्त्रवार्तासमुच्चयस्य [पञ्चमः मितिप्रतीतेः। स्वतःसिद्धस्य योगस्य तादृशबैलक्ष्यहेतुकमौनहेतुकत्वेन सम्भावनात् हेतूत्प्रेक्षा चालङ्कारः / प्राधान्येन तत्पराजयध्वननात् ध्वन्यात्मकं काव्यमिदमवसेयम् / तथाहि-'घदमहं जानामि' इत्याद्यन्तर्बहिर्मुखसांशानुभवात् विमुखज्ञानमात्रस्यावेदनात् अनुभवालापे निराकारस्यैव दर्शनस्य सिद्धेः, आकारव्यवस्थायाः कल्पनयोपपत्तेरतिप्रसङ्गात् , ज्ञानमात्र जगन्न भवितुमर्हति, घटादावेव प्रवृत्तिदर्शनात् बहिरर्थाभावे तु बहिप्रवृत्तिर्न स्यादिति न ज्ञानमात्रं जगत् स्वीकार्यम् , घटज्ञानात् प्रवृत्तस्य घटोपलम्भात् न ज्ञानमात्र जगत् / ' एतेन ‘घटाकारज्ञानस्य स्वभावतो घटप्रवृत्तिहेतुत्वात् शुक्ती रजतज्ञानादिव बहिष्प्रवृत्तिः' इति निरस्तम् , प्रवृत्तिसंवादासंवादनिर्वाहार्थं प्राप्याप्राप्य घटविषयकज्ञानभेदस्वीकारस्यावश्यकत्वात् / अथ प्राप्तिरपि प्रवृत्तस्य सतो घटोपलम्भ एव, तथा च घटप्राप्तौ सत्यघटाकारज्ञानस्य हेतुत्वाद् न दोष इति चेत्- न, सत्यघटज्ञानोत्तर घटभङ्गेऽपि तत्प्राप्तेः प्रसङ्गात्, मम (जैनस्य ) त्वर्थासन्निधानाधीनत्वात्तदप्राप्तेः / न च तव योगाचारस्यापि घटाभावज्ञानात् तदप्राप्तिः, तदज्ञानेऽपि तत्र प्राप्तेरयोगात् , न च घटाकारज्ञानमात्रात् तत्प्राप्तिः, भूतले घटज्ञानात् पर्वते तत्प्राप्तिप्रसङ्गात् न च विशिष्टज्ञान तव ( योगाचारस्य ) अस्ति / न चागृहीतासंसर्गकज्ञानद्वयं प्रापकम् भ्रमादपि प्राप्तिप्रसङ्गात् , सत्यत्वस्य चार्थाभावेऽव्यवस्थानात् / एवं जलानयनादिसिद्धेश्च न ज्ञानमात्रं जगत् , यदि च ज्ञानाकार एव घटो जलानयनसमर्थः स्यात् तदा घटं बुद्ध्वैव जनो जलमानयेत्, इति हता देवानांप्रियेण कुम्भकारादीनामाजीविका ? गृहीतस्य घटादेः