________________ स्तबकः ] कल्पलतावतारिका [117 भागः स्वरूपभेदादेवेति वाच्यम् व्यक्तिभेदस्यातिप्रसङ्गित्वात्, जातिभेदस्य चानभ्युपगमात्, नचान्तर्बहिर्विभागो मिथ्या, सुखनीलाद्यनुभवानामन्तर्बहिर्भावस्याऽऽगोपालाङ्गनं प्रसिद्धत्वात् / एतेनाहमिदमा. कारभेदव्याख्यानमपि सुप्रत्याख्यातम्, अहमाकारस्य शरीरालम्बनत्वे "इदं गौरम्" इत्यनुपपत्तेः निरालम्बनत्वे च भ्रान्तत्वापत्तेः दानाचाकारकालेऽहमाकारानुपपत्तेश्च नचेदन्ताया अन्यस्या अनुपपत्तेर्ज्ञानाकारमात्रत्वं युक्तम् तस्याः प्रत्यक्षसमानकालीनार्थपर्यायविशेषरूपत्वात्, अनन्तधर्मात्वात्मकवस्त्वभ्युपगमे दोषलेशस्याप्यभावात् / तथा चाहुरुपाध्यायाः- इत्थमित्यादि(कल्पलता) इत्थं विलक्षीभूतस्य, तूष्णीम्भावमुपेयुषः / योगाचारस्य योगाय-च्छलमद्य विजृम्भते // 5 // अन्वयः-इत्थम् , विलक्षीभूतस्य, तूष्णीम्भावम् , उपेयुषः,योगाचारस्य, भद्य, योगाय, छलम् , विजृम्भते / . (कल्पलतावतारिका) इत्यम्-अनेन तन्मतखण्डनात्मकप्रकारेण / विलक्षीभूतस्यवैलक्ष्यमापन्नस्य / ( अत एव ) तूष्णीम्भावम्-मौनिताम् / उपयुषःप्राप्तवतः / योगाचारस्य-तदभिधानप्रसिद्धसुगततनयस्य / अद्यअधुना / अव्ययानामनेकार्थकत्वात् / योगाय-समाधये / छलम्व्याजः / मौनात्मकमितिभावः / विजम्भते-प्रकाशते / अपहृत्यलद्वारः, 'नायं योगः' इति प्रकृतं प्रतिषिध्याप्रकृतस्य च्छलस्य संस्थापनात् , नायं योगः किन्तु स्वपक्षखण्डनजनितवैलक्ष्यहेतुर्क मौन