________________ 116] शासवार्तासमुच्चयस्य [ पञ्चमः अनुमानोच्छेदप्रसङ्गात्, तत्रापि लिङ्गानुमानयोः कार्यकारणभावे उक्तविकल्पदोषानतिवृत्तेः / एवञ्च “यया प्रत्यासत्त्या ज्ञानं स्वरूपं गोचरयति तयैव चेदर्थ (गोचरयेत् ) तदा तयोरैक्यापत्तिः, अन्यया चेत्, स्वभावद्वयापत्तिः, तदपि चापरेण स्वभावद्वयेन, तदपि चान्येन तेन ग्राह्यमित्यनवस्था, स्वसंविदितस्यासंविदितरूपायोगात्” इत्यपि निरस्तम् लिङ्गस्य समानक्षणानुमानकरणेऽप्यस्य पर्यनुयोगस्य समानत्वात् / लिङ्गं तदुभय. करणैकस्वभावं चेत् "ज्ञानमपिं स्वपरग्रहणैकस्वभावम्" इति स्वीकारे कस्तव कर्णशूलनिवारणोपायः 1 एवं ज्ञानाद् ग्रहणक्रियाया अर्थान्त. रत्वानन्तरत्वपक्षदोषेऽप्यनुमाने लिङ्गादुत्पत्तेस्तत्पक्षदोषतौल्यं विभावनीयम् / परमार्थतो लिङ्ग नानुमानकारणम्, व्यवहारास्तु तथेष्यत इति चेत्, अर्थस्यापि तत एव ज्ञानग्राह्यत्वं किन्नेष्यते ? व्यवहाराप्रामाण्याल्लिङ्गमप्यनुमानकारणं नेष्यत एव ग्राह्यग्राहकभाववत् कार्यकारणभावस्यापि निषेधात्, समारोपव्यवच्छेदकरणात् त्वनुमान प्रमाणमिष्यत इति चेत् न, तत्र समारोपव्यवच्छेदस्य तन्मते कथमपि कर्तुमशक्यत्वात्, नाशस्य निर्हेतुकत्वप्रसङ्गात्, तत्कारणानां सामर्थ्यऽसामर्थे वा तदुत्पत्तिप्रतिबन्धकस्यापि वक्तुमशक्यत्वात् / यदि च सुखादयो ज्ञानात् सर्वथाऽप्यभिन्नास्तर्हि तद्वदेवैषामप्यर्थप्रकाशकत्वं स्यात् / न चात्र तदस्ति, सुखादीनामपि स्वज्ञानप्रकाश्य. वेन बहिराविशिष्टत्वात्, घटादेर्शानाकारत्वे "भूतले न घट:" इत्यादेनियताऽऽधाराधेयभावानुपपत्तिः, आधाराधेयभावाभ्यां कथश्चित् पृथग्भूतस्याधाराधेयभावस्याबाधितानुभवसिद्धत्वेनाकल्पिकत्वात्, अन्यथा नीलादावप्यनाश्वासात् / न चार्थाभावेऽपि धियामन्तर्बहिर्वि