________________ स्तबकः ] कल्पलतावतारिका [115 उत्प्रेक्षा व्यज्यते शब्दै-रिव शब्दोऽपि तादृशः' / इत्यभियुक्तोक्तः / अधुना-इदानीम् / सभायाम्-विद्वत्परिषदि / अनर्थः-अर्थः पदार्थः, न अर्थोऽनर्थः / उपतिष्ठते-उपस्थितो भवति, पदार्थाभाव उपस्थितो भवतीत्यर्थः, अर्थो नोपतिष्ठते इति वा / सभायामधुना योगाचारस्य पदार्थस्फुरणं न भवतीति भावः / योगाचार: पराजितः सज्जात इति व्यज्यते, स प्रतीयमानोऽर्थ एव प्रधानमिति ध्वनिकाव्यमिदम् / स्वतःसिद्धस्य पदार्थास्फुरणस्थ बाह्यार्थद्वेषिताहेतुकत्वेन सम्भावनादुत्प्रेक्षालङ्कारः, प्रकृतस्य परात्मना सम्भावनस्यैव तत्त्वात् / तथाहि यत्तावत्तैरुक्तम्-'ज्ञालभिन्नस्य ज्ञानाविषयत्वाद् न बाह्यार्थः' इति तद्विपरीतम् , तद्विषयताप्रयोगस्य भेदगर्भत्वात् ग्राह्यग्राहकाकारस्वरूपभेदस्य प्रत्यक्षसिद्धत्वाच्च / . यदपि “सहोपलम्भनियमात्" इत्याद्युक्तम्, सदपि न युक्तम्, यतः सहोपलम्भो युगपदुपलम्भः, क्रमेणोपलम्भाभावः, एकोपलम्भो वाऽभिप्रेतः ? आद्ये बुद्धचित्तसन्तानान्तरचित्तानां सहोपलम्भनियमेऽपि तदभेदाभावेन व्यभिचारः, द्वितीये तुच्छस्य तस्य न प्रतीतिः, तृतीये साध्याविशेषः / किश्चैकान्तैक्ये सहशब्दार्थानुपपत्तिरिति न किश्चिदेतत् / एवञ्च "नीलमहं वेद्मि" इत्यत्र कर्मकर्तृभावप्रत्ययस्याविद्यकत्वं परास्तम्, बाधाभावात, अन्यथा नीलादिप्रत्ययानामपि सथात्वापत्या 'शून्यतायां पर्यवसानप्रसङ्गात्, न च "स्वातन्त्र्योपलम्भो बाधकः". इत्युक्तं युक्तम्, परस्परोपरागेणैव प्रतीतेः / न च समकालयोर्भिन्नकालयोर्वा प्राह्यग्राहकभावासम्भवात् "अर्थानाहिज्ञानम्" इति युक्तम्,