________________ 114 ] शास्त्रवार्तासमुच्चयस्य अन्वयः-यत् , तत् , अर्थग्रहणरूपम् , स्वसंवेद्यम् , इभ्यते, तद्भेदने, तस्य, ग्रहः, ततः, किम्, न, उपपद्यते। .. ... (अव०) यत्-यस्मात्कारणात् / तत्-बुद्धिविषयतामापन्नं विज्ञानम् / अर्थग्रहणरूपम्-बाह्यवस्तुपरिच्छेदात्मकं सत् / स्वसंवेद्यम्निजसंवेदनविषयताविशिष्टम्। इष्यते-इच्छाविषयीक्रियते, "नीलमह वेमि” इति विच्छिन्नार्थग्रहणरूपतयाऽनुभवात् / तद्वेदने-एवम्भूत-- . विज्ञानानुभवे / तस्य-बाह्यार्थस्य / ग्रहः-ज्ञानम् / भवतीति शेषः / ततः-तस्मात्कारणात् / किम्-किमात्मक वस्तु, क: पदार्थ इति यावत् / न-नहि / उपपद्यते-उपपत्तियुक्तं भवति, उपयुक्तं भवतीति यावत् , अपि तु सर्व वस्तूपपद्यत एवेति भावः / तथा चोपाध्यायाः-खलस्येति(कल्पलता) . खलस्य योगाचारस्य, ज्ञात्वार्थद्वेषितामिव / सभायामधुना संभ्याः , अनर्थ उपतिष्ठते // 4 // अन्वयः-सभ्याः, खलस्य, योगाचारस्य, अर्थद्वेषिताम् , ज्ञात्वा, इव, अधुना, सभायाम्, अनर्थः, उपतिष्ठते, / (कल्पलतावतारिका) सभ्या:-हे सज्जनाः ! सदस्याः ! खलस्य-दुर्जनस्य / योगाचारस्य-तदभिधानसुगतशिष्यस्य / अर्थदेषिताम्-बाह्यपदार्थद्वेषम् , ज्ञानातिरिक्तबाह्यपदार्थास्वीकरणमितियावत् / ज्ञात्वा-विज्ञाय / इव-उत्प्रेक्षायाम् / 'मन्ये शङ्के ध्रुवं प्रायो, नूनमित्येवमादिभिः /