________________ स्तबकः ] कल्पलतावतारिका [ 113 लब्ध्यङ्गीकारेण तदभावः साध्यते, उत घटज्ञानात् प्रागपि घटसत्ताभ्युपगमे तदा तदुपलम्भप्रसङ्गापादनं परं प्रति क्रियते इति ? आये तदभिमतेश्वराद्यनुमानाङ्गीकारेणेश्वरादेरभ्युपगमप्रसङ्ग इति दोषः स्फुट एव / अन्त्योऽपि पक्षोऽसमीचीन एव, यस्मात् तस्योपलब्धिलक्षणप्राप्तोऽर्थस्तेनोपलभ्यत एव, अन्यस्य तु न तदुपलम्भप्रसङ्गात् सद्ग्राहकेन्द्रियसन्निकर्षाद्यभावादिति। अतत्स्वभावत्वपक्षेऽपि बाह्यार्थाग्रहणस्वभावैः प्रत्ययान्तरैर्यदि नाम न गृह्यते बाह्योऽर्थस्ततः ( एतावता हेतुना ) न तस्यासत्त्वम्, पीतासंवेदनस्वभावेन तदसंवेदने पीतसंवेदनाभावप्रसङ्गात् / / ___ अथ यतो विज्ञानं स्फुरद्रूपम्, तदनुभवात, नत्वर्थः स्फुरद्रूपो युक्त्यभावात्, सर्वस्यं सर्वज्ञताद्यापत्तेः, अतो विज्ञानानुभवे परपरिकल्पितस्यार्थस्य ज्ञानं नोपपद्यते तथाहि "ज्ञानविषयताया इन्द्रियसन्निकर्षादिनियम्यत्वाज्ज्ञानस्यार्थस्य च परतः प्रकाश एव" इति नैयायिकमतं न युक्तम्, स्वसंवेदनस्य प्रसाधितत्वात् प्रत्यक्षव्यवहारे प्रत्यक्षत्वस्य प्रयोजकत्वात् , कचित् प्रत्यक्षत्वस्य कचिच्च प्रत्यक्षविषयत्वस्य तथात्वे गौरवात् ; नीलज्ञानत्वाद्यपेक्षया नीलत्वादेरेव चाक्षुषादिजन्यतावच्छेदकत्वे लाघवाच्च / एवञ्च 'घटादिर्न ज्ञानभिन्नः प्रत्यक्षत्वात् , तत्स्वरूपवत्', इत्यनुमानेन बाह्यार्थाभावोऽवसीयते ततश्च अर्थाभावे मान न विद्यते इति नीलादौ ज्ञानाभिन्नस्वाहे समीहितसिद्धिर्ममेति चेत्-अत्राहुः सिद्धिान्तिन; अर्थेति(शास्त्रवार्ता.) अर्थग्रहणरूपं यत्, तत् स्वसंवेद्यमिष्यते / तद्वेदने ग्रहस्तस्य, ततः किं नोपपद्यते // 12 //