________________ 112 ] शास्त्रवार्तासमुच्चयस्य . [ पञ्चमः तरयावत् प्रतियोग्युपलम्भकसमवधानरूपाया एक स्वीकृतत्वेनापरा. भिमतघटाद्युपलम्भकानां तत्स्थानाभिषिक्तपत्ययान्तराणां वा बाह्यार्थी पलम्भजननम्वभावत्वे त्वयाऽप्यभ्युपगम्यमाने बाह्यासिद्धेरसम्भ. वात् , तदुपलम्भजननस्वभावहेतुसाकल्यविरोधात् , बाह्यार्थस्य ज्ञानजनकत्वापत्त्या योगाचारेण प्रतियोगिप्रतियोगिव्याप्येतरत्वस्य निवे. शयितुमशक्यत्वात् / तत्स्थाने तदुपलम्भजनकसमनन्तरायत्वनिवेशेऽपिसामग्रथननुप्रविष्टानां हेतुत्वोपगमेऽपसिद्धान्तापातात् / अथ परपरिकल्पतेनार्थेन सह प्रत्यान्तराण्यर्थोलम्भजननस्वभावानि, तथा चोक्तं न्यायवादिना-'स्वभावविशेषश्च यः स्वभावः सत्स्वन्येषूपलम्भ प्रत्ययेषु सन् प्रत्यक्ष एव भवतीति, एवश्वार्थस्य क्लुप्तत्वात् / तत्साहित्येनार्थोपलम्भजननस्वभावत्वं विशिष्टं क्लृप्तमित्याशय इति चेत् न एवं क्लुप्तेऽप्यर्थे तेषामर्थोपलम्भजनकत्वापत्तेः तत्साहित्यघटितस्वभावात् , अन्यथा सहार्थेन तजननस्वभावविलयः स्यादिति / ननु 'यदाऽर्थो भवति तदा तदुपलम्भं जनयन्ति' इति योग्यतामधिकृत्य तत्स्वभावत्व कल्पना स्यादिति चेत् सत्यम् , एवमपि यस्मिन् किस्मिश्चित्काले उपलम्भसम्भवात् बाह्यघटादेः पदार्थस्य सिद्धिसम्भवात् / अन्यथा ( कदापि तदुपलम्भाजनने ) अभिमतप्रत्ययान्तरांणां बाह्यार्थोपलन्भजननयोग्यता न्यायेन कथमुपपद्येत, कारणान्तरवैकल्यप्रयुक्तकार्याभावस्यैव कारणान्तरे योग्यताया व्यवह्रियमाणत्वात् ? लोकेऽश्वमाषादेः (कङ्कदुकादेः) कदापि पक्त्याद्यजनकत्वस्य पक्त्यादियोग्यताया अदर्शनात् / ___ अथ बाह्यार्थवादिनैयायिकाद्यभिप्रायत: "उपलब्धिलक्षणप्राप्तोऽर्थो नोपलभ्यते” इत्येतदुच्यत इति चेत् ? अत्र किं तदभिमतानुप