________________ स्तवकः / कल्पलतावतारिका [111 (शास्त्रवा०) विज्ञानमात्रवादोऽपि, न सम्यगुपपद्यते / मानं यत्तत्त्वतः किञ्चि-दर्थाभावे न विद्यते // 1 // अन्वयः--विज्ञानमात्रवाद', अपि, सम्यग् , न, उपपद्यते, यत्, तत्त्वतः, अर्थाभावे, किञ्चित् , मानम् , न, विद्यते / (अव० )विज्ञानमात्रवादः-सर्वमिदं दरीदृश्यमानं ज्ञानस्वरूपमेव, ज्ञानातिरिक्तं न किश्चिद् वर्तते सदितिस्वरूपो विज्ञानमात्रवादः / अपि-योगाचारपरिकल्पितोऽपि / सम्यग-विचारणापथमापादितः / न उपपद्यते--सङ्गतो न भवति / यत्-यतः / तत्त्वतः-स्वतन्त्रनीत्यैव, वास्तवरूपेण वा / अर्थाभावे-ज्ञ नातिरिक्तपदार्थानामत्यन्तासत्तायाम् / किश्चित्-किमपि / मानम्-प्रमाणम् , प्रत्यक्षाद्यन्यतरद् / न विद्यते-- नैव विजृम्भते / अर्थाभावनिश्चयापादकप्रमाणविरहात ज्ञानमात्रमेवेद. मित्यवधारणं नैव युज्यते / तदुक्तम् अयमेवेति यो ह्येष, भावे भवति निर्णयः / / नैष वस्त्वन्तराभाव-संवित्त्यनुगमाहते // 1 // इति / तथाहि-प्रत्यक्षमर्थाभावे नैव प्रमाणं भवितुमर्हति, अभावालम्बनस्य तस्यास्वी क्रियमाणत्वात् / अर्थाभावस्य तुच्छत्वात् , अध्यक्षम्य च स्वलक्षणालम्बनत्वात् / अत एवानुमानमपि न तत्र मानम् / अनुमानस्य प्रत्यक्षमूलकत्वेन प्रत्यक्षाभावेऽर्थाभावप्रतिबद्धसमीचीनलिङ्गानुपलम्भात् / न च येन कारणेन बाह्यघटादिरूपोपलब्धिलक्षणप्राप्तोऽर्थः परनीत्योपलभ्यते / ततश्चादर्शनरूपयाऽनुपलब्ध्यैव बाह्यार्थाभावो ज्ञायतेति वाच्यम्, उपलब्धिलक्षणप्राप्तेरिह प्रतियोगिप्रतियोगिव्याप्ये