________________ 110] शास्त्रवार्तासमुच्चयस्य . [पञ्चमः कते-प्रत्यक्षविषयीकरोति। चरणनम्रशक्रस्फुरतकिरीटमणिदीधितिस्नपितपादपद्मः-चरणयोः पादयोः नम्रस्य नमनशीलस्य शकस्य सुरराजस्य स्फुरतो देदीप्यमानस्य किरीटमणेः मुकुटमणेः दीधितिभिः प्रभाभिः स्नपिते पादपद्मे यस्य स तथा, पादप्रणतेन्द्रराजमानमुकुटरत्नकान्तिस्न पितक्रमाब्ज इति यावत् / एषः-यत्पदाक्षितः स एषः / परमेश्वरः-जिनराजपरमात्मा / श्रिये - बाह्यान्तरसम्पत्तये / अस्तुभवत्विति शेषः / पृथ्वीवृत्तम् / / (कल्पलता) . समीहितं कल्पतरूपमश्चेत्, शर्केश्वरः पार्श्वजिनः पिपर्ति / तदाऽसदालापसमुद्भवेभ्योः, भयं न किञ्चिद् मम दुनयेभ्यः // 3 // अन्वयः-चेत् , कल्पतरूपमः, शङ्खश्वरः, पार्श्वजिनः, समीहितम् , पिपति तदा, असदालापसमुद्भवेभ्यः, दुर्नयेभ्यः, मम, किञ्चिद् , भयम् , न / (कल्पलतावतारिका) चेत्-यदि / कल्पतरूपम:-अभिमतफलदायकसुरपादपकल्पः / शर्केश्वरः-शङ्खश्वरेतिपरमपवित्रमन्त्ररूपानुपमाभिधानपवित्रितभुवनत्रय: पार्थजिन:-त्रयोविंशस्तीर्थेश्वरः / समीहितम्-मनोवाञ्छितम्। पिपर्ति-पूरयति / तदा-तर्हि / असदालापसमुद्भवेभ्यः-असमीचीनशास्त्रवार्ताजनितेभ्यः, असजनजनजनितयत्तत्प्रलापसमुत्थितेभ्यः, इति वा / दुनयेभ्यः-दुष्टवचनरचनैः / मम-मल्लक्षणस्याहतमतानुरक्तस्य जनस्य / किश्चिद्--किमपि, स्वल्पमपीति यावत् / भयम्-- भीतिः / न--नास्ति / 'विज्ञानमात्रमेव जगद्' इति योगाचाराख्यसौगतविशेषस्याभिमत मतमपाकरोति शास्त्रवार्ताकृद् विज्ञानेति