________________ स्तवकः ] कल्पलतावतारिका [106 इति यावत् / सः-यच्छब्दाक्षिप्तः सः / अन्तर्यामी-अन्त:करणचर. * णशीलः, मनस्तत्त्ववेदीतिभावः। चामीकरकान्तिः-चामीकरस्य सुब र्णस्य कान्तिश्च्छायेव कान्तिर्यस्य स तथा, उष्ट्रमुखादित्वाद्बहुव्रीहिसमासः कान्तिपदलोपश्च / कनकच्छ विरितियावत् / आप्तः-रागद्वेषयोरात्यन्तिकक्षय प्राप्तिः, सा यस्यास्तीति प्राप्तः, प्रामाणिकपुरुष इति / स्वामी-नाथः / सताम्-भव्यात्मनाम् / इहितसिद्धये-अभिलषितार्थनिष्पत्तये / स्तात-भूयादिति शेषः / प्रकृतसूक्ते स्वामी-तामीयामी-चामी-वामी- तामीतिसदृशवर्णसंयोजनाद्रम्योऽनुप्रासः / (कल्पलता) अनाकलितमन्यथा-कलितमन्यतीर्थेश्वरैः, स्वरूपनियतं जगद् , बहिरिवान्तरालोक्यते / य एष परमेश्वर-श्चरणनम्रशक्रस्फुरत् किरीटमणिदीधितिस्नपितपादपद्मः श्रिये // 2 // अन्वयः- यः, अन्यतीर्थेश्वरैः, अनाकलितम् , अन्यथाकलितम् , स्वरूपनियतम् , बहि , इव, अतः, जगत्, आलोकते, चरणनम्रशक्रस्फुरकिरीटमणिदी. घितिस्नपितपादपद्मः, एषः, परमेश्वरः, श्रिये, (अस्तु) / (कल्पलतावतारिका) . यः-यत्पदबोध्यः / अन्यतीर्थेश्वरी-परदर्शनप्रवर्तकपुरुषप्रधानैः। अनाकलितम्-अनिर्धारितम्, अनवबुद्धम् / अन्यथाकलितम्अन्यप्रकारेण निर्धारितम् , अयथार्थं विचारितम् इति यावत् / स्वरूपनियतम्-स्वस्वभावस्थितम् , नियतनिजरूपमिति यावत् / बहिः इव अन्तः-यथा बाह्यम् तथैवाभ्यन्तरम् / जगत्-विश्वम् / आलो