________________ 108 शास्त्रवार्तासमुच्चयस्य [पञ्चमः / * अथ पञ्चमः स्तवकः * पश्चमस्तवकादिममङ्गलं सूक्तत्रितये नाभिदधाति स्वामीत्यादि। (कल्पलता) स्वामी सतामीहितसिद्धयेऽन्तर्यामी स चामीकरकान्तिराप्तः / वामीभवन्तोऽपि परे बतामी, क्षमा न यदर्शनलङ्घनाय // 1 // अन्वयः- यदर्शनलङ्घनाय, बत, वामीभवन्तः, अपि, परे, अमी, न, क्षमाः, सः, अन्तर्यामी, चामीकरकान्तिः, आप्तः, स्वामी, सताम् , ईहितसिद्धये, (स्तात्)। (वल्पलतावतारिका) ___ यद्दर्शनलङ्घनाय-यस्य प्रभोः शासनं लङ्घयितुम् , अहंदुपदिष्टस्याद्वाददर्शनापाकरणाय / बत-खेदे, अहो अमी वराका एतादृश सर्वजनश्रेयस्करमर्हच्छासन विघटयितुं यतन्ते इति खेदोद्गारसूचा, एवञ्च दुरितभरभृता एते दुर्गतिं गमिष्यन्तीति अनुकम्प्यास्ते इति बत अनुकम्पाज्ञापकम्, कृतेऽपि प्रबलप्रयत्ने नार्हच्छासनं स्वल्पमपि विलचयितुमीशास्ते इति सन्तोषव्यञ्जकमिदम् / अहो अर्हच्छासनस्याद्भुतं सामर्थ्य यन्न केऽपि तदभिद्रवन्तीति विस्मयापादकं बताव्ययम् / खेदानुकम्पःसन्तोष-विस्मयामन्त्रणे बत' इत्यमरः / वामीभवन्तः-अवामा वामा भवन्त इति वामीभवन्त:, वकतामाचरन्त: / वामाशब्दस्य स्त्रीवाचक त्वमपि, तथा च वामीभवन्त इत्यनेन स्त्रैणमनुसरन्त इति व्यज्यते, स्त्रीप्राया नि:सत्त्वा न कमपि विलवयितुं प्रभवन्ते किं पुनरर्हच्छासनं प्रबलम् / अपि-तथापि / परे अमीपुरोवर्तिनः शत्रुपाया: सौगताद्याः / न-नैव / क्षमा:-अलम् ; समर्था