________________ 106 ] शास्त्रवार्तासमुच्चयस्य [चतुर्थः - - - र्थाभिधेयः / अपि-तथापि / लिपिभ्रमेण-अक्षरविन्यासविपर्यासेन, 'सू' इत्यत्र सौ, 'न्त' इत्यत्र न्ति इति करणान् / लोके-नने / सौत्रान्तिक इति-तथाविधाभिधानेन / प्रसिद्धः-ख्यातिमाप्तः अत्र सूत्रान्तक इति निर्णये स्वकीयसूत्रहननस्य हेतुतयाभिधानात् हेतोर्वाक्यपदार्थत्वे, कालिङ्गं तदुच्यते' इतिलक्षणलक्षितं काव्यलिङ्गमलङ्कारः / क्षणिकत्वखण्डनसमर्था समर्थामाहती गिरमनुसृ-याहतमतमाश्रयणाय प्रेरयति क्षणेति(वल्पलता) क्षणक्षयक्षेपकरीं सकर्णाः 1, कर्णामृतं वाचमिमां निपीय / जैनेश्वरं सिद्धिकृते प्रवादि-प्रशासनं शासनमाश्रयन्तु // 7 // अन्वयः-सकर्णाः 1 क्षणक्षयक्षेपकरीम् . इमाम, वाचम् , कर्णामृतम् , निप य, सिद्धिकृते, प्रवादि प्रशासनम् , जैनेश्वरम् शासनम् , आश्रयन्तु / (कल्पलतावतारिका) सकर्णाः ?-कर्णाभ्यामाकर्ण्य आकर्णितं सफलं विदधानाः सज्जनाः साक्षरा: 1 / समेषामपि कर्ण तत्त्वेऽपि सार्थककर्णानामेव सकर्णत्वं नान्येषाम् / क्षणक्षयक्षेपकरीम्- यत् सन् तत् क्षणिक' मिति सौगतसिद्धान्तान्तकरणशीलाम् / इमाम्-कल्पलतापल्लवितां हारिभद्रीम् / वाचम्-गिरम् / कर्णामृतम्-श्रवणयोः पीयूषं यथास्यात्तथा / निपीय-पीत्वा / सिद्धिकृते-सकलार्थसाधनार्थम् , मुक्तिप्रापणाय वा / प्रवादिप्रशासनम्-सदर्पमिथ्यादर्शनिदर्शननियन्त्रणापादकम् / जैने