________________ स्तनकः ] कल्पलतावतारिका [ 105 समुद्रम्-पारावारप्रतिमम् / ददाह -अदहत् / तत्-तस्मात् / मीनाः इव-मल्यवत् / भीताः-साध्वसमापन्नाः / दीनाः-दैन्यान्विताः / एते-सौगताः / जवेन-शीघ्रं / न नश्यन्तिकिम् ?-किमु न पलायन्ते ? अपि तु नश्यन्त्येव / तत्पलायनं पश्यन्तु-विलोकयन्तु, भवन्त इति शेषः / पर्यायोक्ति-रूपकानुप्रासा अलङ्कारः / सौत्रान्तिकं सौगतविशेषमुपहसन्नाह रक्त इति / (कल्पलता) रक्तः प्रसक्तः क्षणिकत्वसिद्धौ, यदुक्तसूत्रं हतवान् स्वकीयम् / सूत्रान्तकोऽप्येष लिपिभ्रमेण, सौत्रान्तिको लोक इति प्रसिद्धः // 6 // अन्धयः-क्षणिकत्वसिद्धौ, रक्तः, प्रसक्तः, एषः, यत्, स्वकीयम् , उक्तसूत्रम् , हतवान् , (इते ) सूत्रान्तकः, अपि लिपिभ्रमेण लोके, सौत्रा. . न्तिक., इति, प्रसिद्धः / (कल्पलतावतारिका) क्षणिकत्वसिद्धौ- यत् सत् तत् क्षणिकम्' इति व्याप्तेः साध. नार्थम् / रक्त:-रागवान् , तदेकरस: / अत एव प्रसक्त:-क्षणिकता. साधनाय संलग्नः,अन्योद्योगमात्रमपहायात्रैव दत्तदृष्टिः / एषः-प्रत्यक्ष दृश्यमानः सौत्रान्तिकाभिधानः सौगतः / यत्-यतः / स्वकीयम्नैजम् , बुद्धसम्बन्धीति यावत् / उक्तसूत्रम्-पूर्वप्रतिपादितं वचनम्, 'इत एकनवते कल्पे-' 'कप्पट्ठाइ पुहइ-' इत्यादिसूत्रम् / हतवान्-नष्टं चकार, असङ्गतं विदधे, क्षणिकत्वे सिद्धे उक्तसूत्रं नैव तथ्यं स्यादिति भावः। इति अयं सूत्रान्तकः-सूत्रमन्तयतीति सूत्रान्तक इत्यन्व.