________________ 104 ] शास्त्रवार्तासमुच्चयस्य . [ चतुर्थः / सौत्रान्तिकः ।अस्मासु-आर्हतेषु / संरम्भम्-वादसंग्रामम् / वितत्य-.. विस्तार्य, चिरं कृत्वेति यावत् / उच्चैः-अतिशयेन, अत्यन्तं यथा स्यात्तथा / निपपात-विनिपातमधिगतवान् , पराजयमाप्त इति यावत् / सत्यम्-तथ्यमेतत् / बत-खेदोद्वारसूचकम् / यत्-यतः / तु-पुनः / अनेन-सुगतसुतेन सहायीकृतः-निजपक्षपोषणाय साहाय्यं याचितः / अपि-सम्भावनायाम् / असौ-एषः, पुरोवर्ती / यौगः-योगाचारः। : शोच्याम्-खेदजननीम् / दशाम्-अवस्थाम् / जगाम-प्राप्तवान् / पर्यायोक्तमलङ्कारः प्रस्तुतसूक्ते / बौद्धो यौगश्च पराजिताविति व्यङ्गयस्य भङ्ग यन्तरेण कथनात् / 'पर्यायोक्तं तु गम्यस्य, वचो भङ्गयन्तराश्रयम्' इति तल्लक्षणात्। ___ उक्तमेव भङ्ग यन्तरेणोपपादयन्ति- ताथामतानामिति(कल्पलता) ताथागतानां समयं समुद्र, तर्कोऽयमौर्वानलवददाह / पश्यन्तु नश्यन्ति जवेन भीताः, दीना न मीना इव किं तदेते // 5 // अन्वय-और्वानलवत् , अयं, तर्कः, ताथागतानाम् , समयम् , समुद्रम् , ददाह, तत् , मीनाः, इव, भीताः, दीनाः, एते, जवेन, न, नश्यन्ति, किम् -पश्यन्तु / (कल्पलतावतारिका) और्वानलवत्-वडवाग्निरिव / अयम्-प्रत्यक्षीक्रियमाण एषः / तर्कः-युक्तियुक्त आर्हतमतविचार: / ताथागतानाम्-यथातथवादिनां तथागततनयानां बौद्धानाम् / समयम्-क्षणिकत्वादिसिद्धान्तम् /