________________ स्तवकः ] कल्पलतावतारिका . [ 103 - नान्यथा / क्षणिकत्ववादे तु 'इत एकनवते कल्पे, शक्त्या मे पुरुषो हतः। तेन कर्मविपाकेन, पादे विद्धोऽस्मि भिक्षवः 1 // 1 // इति बुद्धस्य कंटकेन पादे विद्वे भिक्षुभिः पर्यनुयोगे विहितेऽनुयोगरूपं सौगतोक्त विरुध्येत / सन्तानापेक्षादि पुरस्कृत्योक्तवचनविरोधपरिहारः क्रमेलकप्रवेशन्यायमनुसरतीति सन्तानापेक्षादिमीमांसा नैव मतिमांसला / अपि च भगवता सौगतेन भिक्षून् आमन्त्र्य स्वयमेव पृथिव्याः कल्पस्थायित्वं यदुपदिष्टं 'कप्पट्ठाइ पुहइ अभिक्खाया' इत्यादि तन्न सङ्गतिमङ्गति क्षणिकत्ववादे / रूपादयः पञ्च बाह्या द्विविज्ञेया इत्यप्याएं क्षणिकत्वाभावे एव सङ्गच्छते, क्षणिकत्वे तु रूपादीनामिन्द्रियमनो. विज्ञानग्राह्यत्वात्मकं द्विविज्ञेयत्वं न स्यात् / द्विविज्ञेयत्वशब्दार्थो हि भिन्नकालग्रह एवोपपद्यते / एककालग्रहे त्वेकस्यानर्थक्यादप्रमाणत्वं भवेदिति / एवमनेकदोषदूषितमेकान्तेन क्षणिकत्वं भावानामपाकररणीयमेव / नो चेत् कदाग्रहग्रहग्रस्तस्य सौगतस्य वादसमरे यथा विनिगतो भवति तथान्यस्यापि स्यादेव / अतः साधूपहस्यते वाचकवरैबौद्धः सरम्भमित्यादिना-.. (कल्पलता) संरम्भमस्मासु वितत्य सत्य-मतो बतोचैर्निपपात बौद्धः / अनेन शोच्यां तु दशां सहायी-कृतोऽपि यौगो यदसौ जगाम // 4 // अन्वयः- अतः, बौद्धः, अस्मासु, संरम्भम् , वितत्य, उच्चैः, निपपात, सत्यम् , बत, यत् , तु, अनेन, सहायीकृतः, अपि, असौ, योगः, शोच्याम् , दशाम् , जगाम / (कल्पलतावतारिका) अत:-क्षणिकत्ववादखण्डनाद्धेतोः। बौद्धः-बुद्धमतानुयायी