________________ 102 ] . शास्त्रवार्तासमुच्चयस्य . [चतुर्थः त्वादिरूपं न बाधकम् / नचाधिकरणस्वरूपत्वेऽननुगमो बाधकः, तथासत्यभावाभावस्यापि प्रतियोग्यात्मकत्वविलयेऽपसिद्धान्तात् / तत्र तदभावाभावत्वमेकमेवेति चेत् , किं तत् ? घटत्वादिकमिति चेत्, कथमस्य तत्त्वम् ? तेन रूपेण घटादिमत्ताप्रतीतौ घटाद्यभावाभावव्यवहारादिति चेत्, कथं तर्हि तदसाधारणधर्मान्तराणामपि न तथात्वम् ? किश्च, एवं घटत्वादिज्ञान प्रतियोगिज्ञान विना न स्यात् , अभावप्रत्यक्षे योग्यधर्मावच्छिन्नज्ञानत्वेन हेतुत्वात्, अन्यथा तनिर्विकल्पकप्रसङ्गात् / यदि च निर्विकल्पकीयविषय. तया घटत्वादिनाऽभावस्य प्रत्यक्षस्याभावत्वांशे निर्विकल्पकस्य स्वीकारे विशेष्यतानवच्छिन्ननिर्विकल्पकीयविषयतया वा प्रत्यक्षेऽभावत्वभेदस्य कारणत्वात् तन्निर्विकल्पक वार्यते तदा घटत्वादेरपि निर्विकल्पकाप्रसङ्गात् , भावावृत्तितयोक्तविषयतया विशेषणे चाप्रसिद्धेः / अस्तु तर्हि अभावाभावोऽप्यतिरिक्त एव, तृतीयाभावादेः प्रथमाभावादिरूपत्वेनानवस्थापरिहारादिति चेत् / तर्खनन्ताभावानां तत्राभावत्वस्य कल्पनामपेक्ष्य क्लुप्राधिकरणेष्वेव वरमेकोऽभावत्वपरिणामोऽनुभूयमान: श्रद्धीयताम् / नायमभावः इति स्वातन्त्र्येण कस्याप्यनुभवोऽस्ति, किन्त्वधिकरणस्वरूपमेव तत्तदारोपंतत्तत्प्रतियोगिग्रहादिमहिम्ना तत्तदभावत्वेनानुभूयत इति / " अधिक लतायामेवावलोकनीयम् / तथा चाभावो भावत्व नैति, भावश्चाभावतां न यातीति भावानां क्षणिकत्वं न युक्तिसङ्गतम्। रूपादीनामपि कार्यबोधजनकत्वं विचार्यमाणं नोपपद्यते / वास्यवासकभावाद्यपि विक ल्पानुपपत्तितः सङ्गतिं नैवाश्चति / एवश्व सतां कथञ्चिद् ध्रौव्यमङ्गी. करणीयम् / सतां ध्रौव्यस्वीकारे सत्यार्षवचनविरोधो परिहृतो भवति