________________ स्तवकः ] कल्पलतावतारिका [ 101 (कल्पलता) नैयायिकास्मिन् नयवाददीपे, पतन् पतङ्गस्य दशां नु मा गाः / बौद्धस्य बुद्धिव्ययजं कुकीर्ति-विसृत्वरं कजलमस्य पश्य // 3 // _अन्वयः-नैयायिक ! अस्मिन् , नयवाददोपे, पतन् , नु, पतङ्गस्य, दशाम्, मा गाः, अस्य, बौद्धस्य, बुद्धिव्ययजं, कुकीर्तिविसृत्वरम् , कजलम् , पश्य / / (कल्पलतावतारिका) नैयायिक ! कृतन्यायशास्त्रपरिश्रम ! अस्मिन्-पूर्वोक्तप्रकारे / नयवाददीपे-सप्तनयविचारस्वरूपप्रदीपे। पतन्-अन्तर्निवेशमाचरन् / नु-ननु / पतङ्गस्य-प्रदीपशिखायामाविश्य प्राणपरित्यजनस्वभावस्य शलभनामजन्तुविशेषस्य / दशाम्-अवस्थाम् / मा गा:-नाधिगच्छ / अस्य-सपरिकरं खण्डितसिद्धान्तस्य, पुरः स्थितस्य / बौद्धस्यसौत्रान्तिकसौगतविशेषस्य / बुद्धिव्ययजम्-विचारेऽत्र व्यर्थमतिव्यापारजनितम् / कुकीर्तिविसृत्वरम्-अपयशःप्रसरणशीलम् / कजलम्-श्याममजनम् , दोषदूषितवादाविष्करणोत्पन्न-मूढोऽयमितिकलकम् / पश्य-लोचनगोचरीकुरु / अनुपासरूपकालङ्कारौ प्रसादश्वगुणः / नैयायिकस्य पतङ्गस्य नयवाददीपे यथा विलयो भवति तदुपपादितं कल्पलतायाम्-यथा- "तथाहि अभावस्य लाघवात् क्लुप्ताधिकरणस्वभावत्वे सिद्धे सत्र सप्रतियोगिकत्वं कल्प्यमान तवा-नैयायिकस्य-भाववृत्त्यभावेऽन्यप्रतियोगिकत्वमिव तत्काले तबुद्विजनितव्यवहारविषय