________________ 100 ] शास्त्रवार्तासमुच्चयस्य [ चतुर्थः किञ्च, अधिकरणानामननुगतत्वात् , कथमनुगतव्यवहार: ? मम (आईतस्य ) तु समवाय-स्वाश्रयसमवायान्यतरसंबन्धेन सत्तात्यन्ताभाव एवानुगतमभावत्वम्, तच्च स्ववृत्त्यपि, इति न किञ्चिदनुपपन्नम् / नचातिरिक्ताभावस्याधिकरणेन सम संबन्धानुपपत्तिः, सम्बन्धान्तरमन्तरेण विशिष्टप्रतीतिजननयोग्यत्वस्यैव तत्संबन्धत्वात् / नन्वेवं घटाभावभ्रमानुपपत्तिः, योग्यतायाः प्रत्ययाविषयत्वेन विभागाभावाच / अथ योग्यतालिङ्गित स्वरूपमेव संबन्धः, भ्रम-प्रमयोश्च वस्तुगत्या घट-तदभावतव्यक्त्यवगाहित्वेनैव विभाग इति चेत् / न अतीन्द्रि याभाव-स्वरूपसम्बन्धेऽव्याप्तेः / तस्य विशिष्टज्ञानाभावादिति चेत्, न योग्यतावच्छेदकावच्छिन्नस्वरूपद्वयस्यैव सम्बन्धत्वात् , योग्यतावच्छेदकं च कचित् प्रतियोगिदेशान्यदेशत्वम् , कचित् प्रतियोगिदेशत्वे सति प्रतियोगिकालान्यकालत्वम् , कचित् प्रतियोगितावच्छे. दकाभाववत्त्वम् / नचात्रापि मत्वर्थसम्बन्धानुयोगः, तत्रापि तादृश. योग्यतावच्छेदकानुसरणात् / नचैवमनवस्था, वस्तुनस्तथात्वात् / प्रत्ययानवस्था तु नास्त्येव, उक्तावच्छेदकवत्त्वस्य स्वरूपपरिचाय. कत्वात् / एवं च तादृशस्वरूपाभावे यत्राभावधीस्तत्र भ्रमत्वम् , इति किमनुपपन्नम् ? वस्तुतः स्वसम्बन्धप्रकारावच्छेदेन यत्र ज्ञाने धर्मिसम्बन्धः स्वसम्बद्धधर्म्यवच्छेदेन वा प्रकारसम्बन्धः, तत्र प्रमात्वम् , अन्यत्र भ्रमत्वम् / अत एव विशिष्टज्ञाने प्रकारधर्मिणोः संयोगादिवदज्ञानस्यापि परस्परसम्बन्धतया भासमानत्वात् 'इदं रजतम्' इति भ्रमे रजत्वस्य शुक्तौ वैज्ञानिकसम्बन्धेन प्रमात्वम् , संयोगेन च भ्रमत्वमिति दिक् / " नैयायिकमुपहसन्त्युपाध्याया. नैयायिकेति