________________ -- - स्तबकः ] कल्पलतावतारिका [E अत्र सौगतार्हतविचारप्रसङ्गे नैयायिका निजसम्मतमभावमतमाविर्भावयन्ति तथोपपादितं कल्पलतायां यथा___अत्र नैयायिका-नन्वेवं वराकस्य सौगतस्य तूष्णींभावेऽपि न वयमिदं मृषाभाषितं सहामहे, भावभिन्नस्यैवाभावस्य घटमानत्वात् ; तथाहि-अभावो भावातिरिक्त एव, अधिकरणस्याप्रतियोगिकत्वात् , तस्य च सप्रतियोगिकतयाऽनुभूयमानत्वेन तद्रूपत्वायोगात् / अथ सप्रतियोगिकत्वं प्रतियोग्यविषयकबुद्धिविषयत्वं, तच्च तवापि (नैयायिकस्य ) नामावस्य, इदंत्वादिनाप्यभावप्रत्यक्षात् , किन्त्वभावत्वस्य, तस्य च ममापि ( आर्हतस्य ) तथात्वमेव, घटवद्भिन्नत्वरूपस्य तस्यघटवीसाध्यत्वादिति चेन्, न, तद्भिन्नत्वस्यापि स्वरूपानतिरेकेणाप्रतियोगिकत्वात् , वस्तुत: प्रतियोग्यवृत्तिरनुयोगवृत्तियों धर्मस्तज्ज्ञानस्य प्रतियोगिवृत्तित्वेन, अज्ञातधर्मग्रहस्य चाभेदप्रहहेतुत्वेन, तस्य चात्र भेदरूपस्यैव संभवेनान्योन्याश्रयाच्च / नचाभावव्यवहारार्थमेव प्रति. योगिज्ञानापेक्षा, अभीवस्त्वप्रतियोगिक एवेति वाच्यम् , व्यवहर्तव्य. ज्ञाने सति, सत्यां चेच्छायां व्यवहारोदयेन तत्राधिकस्यानपेक्षणात् / नचाभाववृत्त्यभावस्याधिकरणानतिरेकेण सर्वमिदं प्रतिबन्दिकचलितमिति वाच्यम् , अभाव सिद्धयुत्तरमुपस्थितायास्तस्याः फलमुखगौरववददोषत्वात् / नचाभावग्रहसामप्रथैव तदुपपत्तेः किमन्तर्गडुनाऽभा. वेनेति वाच्यम् , 'नास्ति' इति धीविषयस्य तस्यान्तर्गडुत्वायोगात् / किश्च, अभावप्रत्यक्षस्य विशिष्टावैशिष्टयप्रत्यक्षरूपत्वेन मम विशेष. णतावच्छेदकप्रकारकनिश्चयमुद्रयैव प्रतियोगितावच्छेदकावच्छिन्नप्र. तियोगिज्ञानस्य हेतुत्वं, नतु स्वातन्त्र्येण, तव (नैयायिकस्य ) तु तद्व्यवहारे तस्य स्वातन्त्र्येण हेतुत्वं कल्पनीयमिति गौरवम् /