________________ 68] शास्त्रवार्तासमुच्चयस्य [ चतुर्थः त्वेनापरिच्छेदात् / भावोऽप्यभावतां नैव प्रयाति, अभावोत्पत्त्यादि. दोषप्रसङ्गात् / यतः क्षणिकभावस्य द्वितीयादिक्षणेऽसत्त्वे सति भवेद. सत्त्वोत्पादोऽपि, कादाचित्कत्वात् , उत्पादाच्च तस्यासत्त्वस्य स्याद्विनाशोऽपि, कृतकत्वात्। ततो नष्टस्य सत: पुनर्भाव: स्यात् , नष्टस्य नित्यत्वात् न दोष इति चेत्- तर्हि सदानाशे प्रथमदणेऽपि भावस्यानवस्थानात् / न च भावनाशो भावस्थितिधर्माभाव एव विनाशस्य सांव्यवहार्य तात्त्विकत्वेन द्वैविध्यात्, आद्यस्य भावनिवृत्तिरूप. त्वेऽपि द्वितीयस्य भावरूपत्वादिति वाच्यम् , क्षणस्थितिधर्मकत्व. स्यापि द्वितीयादिक्षणास्थितौ सत्यामेव सम्भवादुक्तदोषापरिहारात् / __ नाभावो भावतां यातीत्याद्युपसंहरन्ति सूरिपादाः सतोऽसत्त्वमित्यादिना / ( शास्त्रवार्ता) सतोऽसत्त्वं यतश्चैवं; सर्वथा नोपपद्यते / नाभावो भावमेतीह, ततश्चेतद्वयवस्थितम् // 38 // अन्वयः-यतश्च, एवम् , सतः, असत्त्वम् , सर्वथा न उपपद्यते, ततश्च, इह, अभावः, भावम् , न, एति, इति, एतद् , व्यवस्थितम् / (अव०) यतश्च-यतः कारणात् ख्लु / एवम्-पूर्वोक्तप्रकारेण / सतः-भावस्य / असत्त्वम्-अभावत्वम् / सर्वथा-सर्वैः प्रकारविचार्य माणम् / न उपपद्यते-भावोन्मजनप्रसङ्गान्न सङ्गतिमङ्गति / ततश्चतस्मात्खलु / इह-प्रस्तुतविचारप्रस्तावे। अभावः, भावम्-सत्ताम् , भावप्रधाननिर्देशः। न एति- नाधिगच्छति। इति एतद्, व्यवस्थितम्पूर्वकथितमुपपन्नम् / भावविच्छेदेनाभावानुपपत्तेः. तंदविच्छेदे च द्रव्यांशान्वयादिति /