________________ स्तवकः ] कल्पलतावतारिका [7 परमाणुभेदप्रसक्तेस्तदवयवानामपि भेदापत्तितोऽनवस्थाप्रसक्तेः / न च क्षणिकत्वानुमानेन प्रत्यभिज्ञाया बाध इति शङ्कनीयम् , निश्चितप्रामाण्यकत्वेन प्रत्यभिज्ञयैव क्षणकत्वानुमानबाधात् / अपि च क्षणिकत्वस्वीकारे तद्वयक्तिविषयिणी प्रवृत्तिरपि सङ्गता न स्यात् , ज्ञाताया व्यक्तेर्नष्टत्वात् , अज्ञातायाञ्चाप्रवृत्तेः / किञ्चेच्छाविषयव्यक्ते: प्राप्तिरप्यसङ्गता स्यात् / अस्याः प्रागेव नाशात् / अपि च स्वकृतशुभादेविपाकानुभवो दूरोत्सारित एव प्रवृत्तेभ्रमादिना यथाकथञ्चिदुपपत्तावपि स्वकृतभोगोपभोगोपपादने कस्यचिदुपायस्यामा. वात् , यतो हि य: शीलानुष्ठानहेतुः क्षण: स तदैव निरन्वयनाशभाग् भवति। .. यद्यपि भूतवर्तमानभविष्यत्क्षणप्रवाहापेक्षयैवास्माकं (बौद्धानाम् ) ऐहिकामुष्मिकादिरखिलो व्यवहारः सम्मतः, स च प्रवाह एक एव। . तस्मिंश्च सति स्मृत्यादिरैहिकतयोपपद्यत एव,प्रामुष्मिकत्वेऽपि यस्मिन् क्षणप्रवाहे कर्मवासना कर्मणा जनिता, तस्मिन्नेव शुभाशुभादिकं जनयति यथा कर्पासे लाक्षारसाद्याहिता रक्तता कर्पास एव स्वोपरक्तबुद्ध थादिकं स्वफलं जनयति, तथा च न क्षणिकत्ववादेऽपि कश्चन दोष इति / तथाप्येतन्न युक्तम्-पूर्वापरक्षणहेतुहेतुमद्भावतः सन्तानान्तरस्यैवाभावात् / नचैवमपि न काचिदनुपपत्तिः, स्वजन्यतासम्बन्धेनानुभवादेः स्मृत्यादिनियामकत्वात् / प्रत्यभिज्ञाया अपि स एवायं गकारः' इत्यादाविव तज्जातीयाभेदविषयकतयोपपत्तेः / इच्छादेरपि समानप्रकारकतयैव प्रवृत्यादिहेतुतयोपपत्तेरिति वाच्यम् , क्षणिकहेतुहेतुमद्धावस्यासत्कार्यवादिनो मतेऽयुक्तत्वात् / तथाहि-अभावो भावतां न याति शश-शृङ्ग-कूर्मवीर-वन्ध्यास्तनन्धय-गगनेन्दीवरादिषु भाव