________________ शाखवार्तासमुश्वस्य . [चतुर्थः . अन्वयः-अत्रापि, अन्ये, स्मरणादेः, असंभवात् , च, बालार्थवेदनात् , सर्वम् , एतत् , अपार्थकम् , एव, अभिदधति / ... (अव०) अत्रापि-बौद्धवादेऽपि / अन्ये-सिद्धान्तिनो जैनाः / स्मरणादेः असम्भवात्-क्षणिकत्वे स्मरणादेरसम्भवतः। च-पुनः / बाह्यार्थवेदनात-बाह्यार्थप्रमाऽन्यथानुपपत्त्या ज्ञानमात्रासिद्धेः। सर्वम्निखिलम् / एतत्-दिङ्मात्रेण निर्दिष्टम् सौगतमतद्वयम् / अपार्थक्रम्निष्प्रयोजनम् / एव-अवधारणार्थकमव्ययम् / अभिदधति-समुत्तरयन्ति / अयमाशयः-ज्ञातार्थविषयकमागोपालादिसिद्ध स्मरणं यस्मात् अनुभवाम्यवहितोत्तरकाले प्रतिनियतरूपेण निरन्वयनश्वरेऽनुभवितरि मुख्यमेव,एतत् स्वसंवेदनसिद्धं स्मरणं नोपपद्यते, अन्येनानुभवेऽन्यस्य स्मरणायोगात् , “योऽहमन्वभवं सोऽहं' स्मरामि" इत्युल्लेखानुपपत्तेश्च / “सोऽयमन्तेवासी" "सोऽयं गुरुः” इतिप्रत्यभिज्ञाऽपि क्षणिकत्वपक्षेऽसङ्गता, तत्ताविशिष्टाभेदस्येदन्ताविशिष्टेऽनुपपत्तेः / न च प्रत्यभिज्ञा न प्रमाणम्, 'सैवेयं गुर्जरी' इत्यादी विषयषाधदर्शनादिति वाच्यम् , एवं सति हेत्वाभासादिदर्शनात्, सदनुमानादीनामप्यप्रामा. ण्यप्रसङ्गात् / न चाध्यक्षे पूर्वकालसम्बन्धिताया असन्निहितत्वात् परामर्शानुपपत्तिः, अन्त्यसंख्येयग्रहणकाले "शतम्" इति प्रतीते: क्रमगृहीतसंख्येयाध्यवसायतत्संस्कारवशादुपपत्तेः / न च नीलपीतयोरिव वर्तमानत्वाऽवर्तमानत्वयोर्विरुद्धत्वादेकत्र तत्परिच्छेदरूपत्वादयं भ्रमः, अत एव तस्य तादृशापरापरविषयसमिधानदोषजन्यत्व. मिति वाच्यम् , एकत्र नानाकालसम्बन्धस्याविरुद्धत्वात् , अन्यथा बोलसंवेदनस्यापि स्थूराकारावभासिनो विरुद्धविकसम्बन्धात् प्रति.