________________ 64] शास्त्रवार्तासमुच्चयस्य / _ [ चतुर्थः नेन सम्बद्धम् / तथा-किञ्च / महाप्राज्ञा:-सुगततनयेभ्य: मौत्रान्तिकेभ्योऽपि सूक्ष्मबुद्धिशालिनः / परे-योगाचाराः / ज्ञानमात्रम् क्षणिः कविज्ञानमात्रम् ( जगत्-भुवनम् ) मन्यन्ते-अवबुद्धयन्ते / ...." - तदेव जगतः क्षणिकत्वं हेतुचतुष्टयेन समर्थयति तयेत्यादि( शास्त्रवार्ता) तयाहुः क्षपिकं सर्व, नाशहेतोर योगतः / अर्थक्रियाममर्थत्वात् परिणामात् क्षयेक्षणात्॥२॥ अन्धयः- ते, नाशहेतोः, अयोगतः, अर्थक्रियासमर्थत्वात् , परिणामात्, क्षयेक्षणात् , सवम् , क्षणिकम् , आहुः / / (अव०) ते-सौत्रान्तिकाः सुगततनयाः / नाशहेतोः-विनाशकारणम्य / अयोगतः-असम्बन्धात, वस्तुन इतिशेषः / अर्थक्रियासमर्थत्वात्-अर्थक्रियाधरितानिर्वाहकत्वात् / परिणामात्-परिणमनात्, श्रतादवस्थ्यादितियावत् / क्षयेक्षणात्-पार्यन्तिकक्षयदर्शनात, एभिहेतुभिरितियावत् / सर्वम्-चराचर जगत् / क्षणिकम्-प्रतिक्षणनश्वरम् / आहुः-कथयन्ति / अयमाशया-वस्तुनः स्थायित्वासिद्धी साध्यस्य (क्षणिक.. त्वस्य ) सिद्धिर्भवितुमर्हति / तत्सिद्धिप्रकारमेव हेतुचतुष्टयोपन्या. सेन ग्रन्थकदाह- तथाहि-नाशहेतुभिर्नश्वरम्वभावो भावो नाश्येत अतादृशो वा ? अाद्ये प्रयासवैफल्यम् , द्वितीये तु स्वभावपराकरणस्य कर्तुमशक्यत्वादनाशप्रसङ्गः / कियकालावस्थायित्वम्वभावस्यैव क र्यस्य हेतुभिर्जनने च तादृशस्वभावस्योदयकाल इवान्तकालऽपि