________________ स्तक्कः ] कल्पलतावतारिका [ 3 भूषणम् / एनम्-यत्पदवर्णितम् / यद्यप्यत्र यत्तदोनित्यसम्बन्धनियमात् यच्छब्दार्थपरामर्शकतया तच्छब्देनैव भाव्यम् , तथापि 'आनन्दयति ते नेत्रे योऽधुनाऽसौ समागतः', 'योऽविकल्पमिदमर्थमण्डलं, पश्यतीश ! निखिलं भवद्वपुः / आत्मपक्षपरिपूरिते जगत्यस्य नित्यसुखिनः कुतो भयम्' इत्यादाविदमादीनामपि तच्छब्दसमानार्थकतया दर्शनात् न कश्चिद्विरोध इति / श्रीमद्वीरम् षड्विधैश्वर्यशालिनं वर्द्धमानस्वा. मिनम् / जिनम्-तीर्थकरम् / उपास्महे-समाराधयामः / अत्र "वैर. मत्सरलवाशकाऽपि पकावहा" इत्यत्र पूर्वार्द्धस्य हेतुतयाऽभिधानात् काव्यलिङ्गमलकारः / समवसरणभूमौ कामक्रोधाधन्तरङ्गारीणामप्य. विरोधित्वं ध्वन्यते, तस्य च प्राधान्येन स्फुटतया प्रतीतेरुत्तमं काव्यमिदमवसेयम् / तदुक्तं ध्वन्यालोके राजानकाऽऽनन्दवर्द्धनाचार्य: सर्वेष्वेव प्रभेदेषु स्फुटत्वेनावभासनम् / यद्वथड्यस्याङ्गिभूतस्य, तत्पूर्ण ध्वनिलक्षणम् // ____ वार्तान्तरमाह-मूलकन्मन्यन्त इति(शाखवार्ता.) मन्यन्तेऽन्ये जगत्सर्वं. केशकर्मनिबन्धनम् / क्षणक्षयि महाप्राज्ञा, ज्ञानमात्र तथा परे // 1 // अन्वयः-अन्ये, सवम् , जगत् , क्लेशकर्मनिबन्धनम् , क्षणक्षयि, तथा, महाप्राशाः, परे, ज्ञानमात्रम् , मन्यन्ते / (अव०) अन्ये-सौत्रान्तिकाः सौगताः / सर्वम्-चराचर निखिलम् / जगत्-भुवनम् , संसारमिति यावत् / क्लेशकर्मनिबन्धनम्-रागादिनिमित्तम् / क्षणक्षयि-प्रतिक्षणनश्वरम् / मन्यन्ते इत्य.