________________ स्तवकः ] ... कल्पलतावतारिका [11 ॐ अथ चतुर्थः स्तवकः * ' अथ चतुर्थस्तवका दिममङ्गलमभिष्टौति यस्येति(कल्पलता) यस्याभिधानाजगदीश्वरस्य, समीहितं सिद्धयति कार्य्यजातम् / सुरासुराधीशकृताहिसेवः, पुष्णातु पुण्यानि स पार्श्वदेवः // 1 // ... ___ अन्वय - यस्य, जगदीश्वरस्य, अभिधानात् , समीहितम् , कार्यजातम् , सिद्धथत, सुराऽसुराधीशकृताहिसेवः, सः, पार्श्वदेवः, पुण्यानि, पुष्णातु | (कल्पलतावतारिका) / यस्य-बुद्धिविषयीभूतस्य / जगदीश्वरस्य-त्रिभुवनाधीशस्य / अभिधानात्-नामोच्चारणमात्रतः समीहितम्-अभीप्सितम् / कार्यजातम्-निखिलकार्यम् / सिद्धयति-निष्ठामधिगच्छति, संपद्यते वा। सुराऽसुराधीशकृतांह्रिसेवः-सुराऽमुगधीशैः-देवदानवाधीश्वरैः, कृताविहिता, अंहिसेवा चरणशुश्रूषा यम्य स तथा / सः-यत्तदोनित्यसम्बन्धाद्यत्पदाभिधेयः सः / पार्श्वदेवः-भगवान पार्श्वनाथः। पुण्यानिसुकृतानि / पुष्णातु-पोषयतु / कविनिष्ठः श्रीपार्श्वनाथविषयको रत्याख्यभावोऽभिव्यज्यते इति भावध्वन्यात्मकमुत्तमं काव्यमिदम् / सुराऽसुराधीशकृत श्रीपार्श्वनाथचरणसेवायां तदीयनामस्मरणकरणक समीहितकार्यजातसफलीभवनस्य हेतुतया काव्यलिङ्गमलङ्कारः। श्रीमन्महावीरजिनवरमभिष्टोत्यङ्केत्यादि-,