________________ 1.] ::-- शास्त्रवार्तासमुच्चयस्य .. [ तृतीयः इव, निखिलानि, दर्शनानि, यदर्शने, भायान्ति स्याद्वादविद्यानिधिम् , तम् , देवम् , भविनः, शरणम् , भजन्तु / . (कल्पलतावतारिका) .. जगच्छर्मणे-लोककल्याणाय / य:-यादृशो देवः। भवमोगयोगसुभगम्-भवे जगति, भोगेन सुखदुःखसाक्षात्कारेण योगः सम्ब. न्धो भवभोगयोगस्तेन सुभग: सुन्दरो भवभोगयोगसुभगस्तन्तथा / . आत्मानम्-चैतन्यवन्तं जीवमित्यर्थः / विस्पष्टम्-अतिम्फुटतया / आचष्ट-कथयामास / यः-(पुन:)। कर्मप्रकृतिम्-कर्मात्मिकां प्रकृतिम् / जगताम्-लोकानाम्, भुवनानामितियावत् / बीजम्-निदानकारणम् / जगाद-प्रतिपादयामास नद्यः सरित: / अन्धौ-समुद्रे / इव-यथा। निखिलानि-समस्तानि / दर्शनानि-परमात्मतत्त्वनिरूपकागमाः / यदर्शने-यदीयाऽऽगमे / आयान्ति-प्रविशन्ति, सम्मिलन्तीति यावत् / स्याद्वादविद्यानिधिम्-अनेकान्तात्मककांन्ततत्त्वज्ञाननिधानम् / तम्तादृशत्वेन प्रसिद्धम् / देवम्-देवाधिदेवम् / भविन:-मोक्षगमनयोग्या भव्यात्मानः / शरणम् रक्षकम् / भजन्तु-समाश्रयन्तु / दृष्टान्तोऽलङ्कारः। जगत्कर्तृत्वमीशस्य, वैधर्म्यश्चात्मनः पुनः / खण्डयित्वा तृतीयोऽयं, स्तवकः पूर्णतामितः // 3 // 1 इति शासनसम्राट-तपागच्छाधिपति-सर्वतन्त्रस्वतन्त्र-जगद्गुरु बालब्रह्मचारिभट्टारकाचार्यमहाराजश्रीविजयनेमिसूरीश्वरमहाराजपट्टा-1 / लङ्कारशास्त्रविशारदकविरत्नपीयूषपाणिपूज्यपादाचार्य श्रीविजयामृत। रिवरसन्डब्धायां महोदधिकल्पशास्त्रवार्तासमुच्चय-कल्पलतानुसा-1 रिण्यां-कल्पलतावतारिकायां तृतीयः स्तवकः /