________________ स्तबकः ] कल्पलतावतारिका [86 (कल्पलतावतारिका) सालय ! कपिलप्रमुखसांख्याचार्य / यत्-यस्मात् / (त्वम्) जगत्-भुवनम् / प्रकृतिजन्म-रकृते:-प्रकृतिशब्दवाच्यात् गुणत्रयात्मप्रकृतेः कर्मप्रकृतेश्च जन्म यस्य तत्तथा / मन्यसे-स्वीकुरुषे / इदम्-एतत् / एव-खलु / केवलम्-तन्मात्रम् / आवयोः-त्वं सांख्यवाहमाईतश्च आवाम् परत्वादस्मच्छब्दस्यैकशेषे “य. शिष्यते स लुप्य. मानार्थाभिधायी" इत्यभियुक्तोक्त्या द्वित्वविवक्षायां द्विवचनविभक्तिः तयोस्तथा / सख्यम्-मैत्रीभावः / तु-पुनः / एवम्-अनेन प्रकारेण। विधर्मणः-विगतो धर्मो ज्ञानादिर्यम्मादसौ विधर्मा तस्य तथा / भणितीकथने, निरूपणे इति यावत् / (आवयोः) संख्यम्-युद्धम् / एवअवधारणार्थकमव्ययम् / केवलं संख्यमेवेत्यर्थः / भजत्-प्राप्नुवत् / वर्तते इति शेषः / भवचक्रपरिभ्रमणात्मकस्य जगत: प्रकृतिजन्यत्वविपये भवता सह विवादो नाम्ति, कर्मप्रकृतिकस्य जगतोऽस्माभिरपि स्वीकारात , केवलमात्मस्वरूपविषये विवादो यतस्त्वया विधर्माऽऽत्मा मन्यते मया तु सधर्मेतिभावः / पूर्वोक्तमेव स्पष्टयति भगवन्स्तुतिमुखेन आत्मानमित्यादि(कल्पलता) आत्मानं भवभोगयोगसुभगं, विस्पष्टमाचष्ट यो, यः कर्मप्रकृति जगाद जगतां, बीजं जगच्छर्मणे / नद्योऽब्धाविव दर्शनानि निखिलान्यायान्ति यदर्शने, * तं देवं शरणं भजन्तु भविनः, स्याद्वादविद्यानिधिम् // 8 // अन्वयः-जगच्छर्मणे, यः, भवभोगयोगसुभगम् , आत्मानम् , बिपष्टम् , भाचर, यः, कर्मप्रकृतिम् , जगताम् , बीजम् , जगाद, नद्यः, भब्धी