________________ 88] शास्त्रवार्तासमुख्यस्य [तृठीमः अपि चाऽऽत्मविभुत्ववादे ज्ञानादीनामप्यन्याप्यवृत्तित्वादिकल्पने गौरवमिति न किश्चिदेतत् / तदाहुः सूरिप्रवराः एवमित्यादि(शास्त्रवार्ता) एवं प्रकृतिवादोऽपि, विज्ञेयः सत्य एव हि / कपिलोक्तत्वतश्चैव, दिव्यो हि स महामुनिः॥४४॥ ___ अन्वयः-एवम् , च, कपिलोक्तस्वतः, प्रकृतिवादः, अपि, सत्यः, एव, विज्ञेयः, हि, सः, महामुनिः, दिव्यः, एन, हि / (अव.) एवम्-पूर्वकथितप्रकारेण। च-पुन: / कपिलोक्तत्वतःद्रव्यार्थिकनयावलम्बि--कपिलप्रणीतत्वात् / प्रकृतिवाद:-प्रकृतिकारणतावादः। अपि-सम्भावनायाम् / सत्यः-समीचीनः / एव-खलु / विज्ञेयः-बोद्धव्यः / हि-निश्चयेन। सः-अद्भुतशीलाचरणत्वेन प्रसिद्धः / महामुनिः-मुनिपुङ्गवः / दिव्यः-अलौकिकप्रभावः / एव-खलु / हि-निश्चयेन / ततश्च तादृशः स महामुनिः कथमनृतं ब्रूयात् , इति तस्याप्ययमेवाऽभिप्राय इति भावः। . अन्ते साङ्ख थमुपहसन् ब्रवीति महोपाध्यायः साहयेति(कल्पलता) साङ्खय ! सख्यमिदमेव केवलं, मन्यसे प्रकृतिजन्म यजगत् / आत्मनस्तु भणितौ विधर्मणः, संख्यमेव भजदेवमावयोः // 7 // अन्वयः- साङ्ख्य ! यत् , (त्वम्) जगत् , प्रकृतिजन्म, मन्यसे, इदम् , एव, केवलम् , आवयोः, सख्यम् / तु, एदम् , विधर्मणः, आत्मनः, भगिती, (आवयोः) संख्यम् , एव, भजत् (वर्तते)। ..