________________ स्तषक: ] कल्पलतावतारिका - नुपाख्यत्वापत्तिरिति न किमप्येतत् / न च नभसो घटादिनेव कर्मणा जीवस्य सम्बन्धो जायताम् , ततोऽनुग्रहोपधातौ तु तस्य नभस्वदेव न म्यादिति वाच्यम् / सुराब्राह्मीघृतादिना ज्ञानस्येव मूर्ताया अपि कर्मप्रकृतेः सकाशात् जीवस्योपघातानुग्रहभावस्य युक्तत्वात् उपघातानुग्रहमावस्याऽङ्गाङ्गिभावलक्षणसम्बन्धप्रयोज्यत्वात् / . अथैवमपि सर्वमिदमात्मनोऽविभुत्वे संभवति, तदेव चेदानीमपि न सिद्धमिति चेत्, न, शरीरनियतपरिमाणवत्त्वेनैवाऽऽत्मनोऽनुभवात्, मूर्तत्वसंशयस्य ज्ञानप्रामाण्यसंशयादिनैवोपपत्तेः / न च द्रव्यप्रत्यक्षत्वावच्छिन्नहेतोमहत्त्वस्याऽत्मनि सिद्धौ तस्यावयवमहत्त्वाद्यजन्यत्वेन नित्यतया आत्मा विभुः नित्यमहत्त्वात् आकाशवत् इत्यनुमानात् तस्य विभुत्वमेव युक्तमिति वाच्यम् / नित्यमहत्त्वेऽप्यपकृष्टपरिमाणवत्त्वे बाधकामावेनाप्रयोजकत्वात् / नचापकृष्टत्वे तस्य जन्यत्वापत्तिर्बाधिका, गगनमहत्त्वायधिकापकर्षस्य बहुत्वजन्यतावच्छेदकत्वादितिवाच्यम् परमाणुपरिमाणसाधारणतयाऽस्य कार्यतावच्छेदकत्वाभावात् , त्रुटिमहत्त्वावधिकोत्कर्षेण समं साङ्क-त् तादृशजात्यसिद्धेश्च / एवं सति कथमात्मनो विभुत्वे स्वस्मिन् क्रियादिप्रतीतिः, तीर्थगमनादेरदृष्टहेतुत्वश्रवणादिकम्योपपादनीयम् ? कथं वाऽऽत्मन: सर्वगतत्वात स्वशरीरादन्यत्रापि न ज्ञानाद्युत्पादः ? शरीराभावादन्यत्र न ज्ञानाद्युत्पाद इति चेत् , न, अन्य शरीरस्य सत्त्वात् / स्वशरीराभावादितिचेत् ? स्वसंयुक्तत्वेन तस्यापि स्वीयत्वात् / स्वादृष्टोपगृहीतशरीराभावादिति चेत् तर्हि उप जीव्यत्वात् तददृष्टस्यैव तदज्ञानादिहेतुत्वात् , तस्य शरीरव्यापितयाऽऽत्मनस्तथास्वसिद्धिः / तदुक्तम् यत्रैव यो दृष्टगुणः स तत्र, कुम्भादिवन्निष्प्रतिपक्षमेतत्।। तथापि देहाद बहिरात्मतत्त्व-मतत्त्ववादोपहता वदन्ति / /