________________ "86] शास्त्रवार्तासमुच्चयस्य / तृतीयः रूवाईपज्जवा जे देहे जीवदवियम्मि सुद्धम्मि / ते अण्णोण्णाणुगया पण्णवरिणज्जा भवत्थम्मि / गौरोऽहं जानामि कृशोऽहं जानामि इत्यादिधियस्तथैवोपपत्ते: रूपादिज्ञानादीनामन्योन्यानुप्रवेशेन कथश्चिदेकत्वाऽनेकत्वमूर्तत्वाऽमूतत्वादिसमावेशात् / अत एव दण्डादीनामेकत्ल मनेकत्वश्च स्थानाले व्यवस्थितम् / नन्वेवमन्तहर्षविषादाद्यनेकविवर्तात्मकमेकं चैतन्यम् / बहिर्बालकुमारयौवनाद्यनेकावस्थात्मकमेकं शरीरमध्यक्षतः संवेद्यत इत्यस्य विरोधः। बाह्याभ्यन्तरविभागाभावादिति चेत्, सत्यम् आत्मभिन्नत्वा. ऽभिन्नत्वाभ्यां तदभावेऽपि मानसत्वाऽमानसत्वाभ्यां तद्व्यपदेशात् / सर्वस्यैव मूर्तामूर्तादिरूपतयाऽनेकान्तात्मकत्वात् अयं बाह्यः, अय चाभ्यन्तरः इति समये न वास्तवो विभागः, अभ्यन्तर इति व्यपदेशस्तु मनः प्रतीत्य, तस्याऽऽत्मपरिणतिरूपस्य पराप्रत्यक्षत्वात् . शरीरवा. चोरिव / न च तद्वदेव तस्य परप्रत्यक्षत्वापत्तिः इन्द्रियज्ञानस्याशेषपदार्थस्वरूपग्राहकवायोगात , एवञ्च स्याद्वादोक्तिरेव युक्ता, न तु परस्परनिरपेक्षनयोक्तिर्विनाश्रोतृधीपरिकर्मणानिमित्तम् , वस्तुनोऽनेकान्तात्मकत्वात् / तस्माद्देदात्मनोऽन्योन्यव्याप्तिजन्यैव देहस्पर्शादिसंवि. त्तिरितिसिद्धम् / मूर्तयाऽपि प्रकृत्या आत्मनो योग: संभवति, यथा मूर्तेनामूर्तस्य नभसः, घटेन संयुक्तमपि नभो न घटस्वभावतां यातीति न दोष... इतिचेत्-स संयोगः किं घटस्वभावः, नमःस्वभावः, उभयस्वभावोऽनु- .. भयस्वभावो वा ? आद्ययोरुभयनिरूप्यत्वानुपपत्तिः, तृतीये च वदतो व्याघात:, घटस्वभावसंयोगवत्तया नभसो घटस्वभावत्वात, चतुर्थे त्व.