________________ * स्तबकः] कल्पमतावतारिका [85 - देहेत्यादि- . (शासवार्ता) देहस्पर्शादिसंवित्या, न यात्येवेत्ययुक्तिमत् / अन्योऽन्यव्याप्तिजाचेयमितिबन्धादिसङ्गतम् // 42 // ___ अन्वयः-देहस्पर्शादिसंवित्त्या, न, यात्येव, इति, अयुक्तिमत् , इयम्, च, अन्योन्यव्यातिजा, इति, बन्धादि, सङ्गतम् / - (अव०) देहस्पर्शादिसंविच्या-देहे शरीरे यःस्पर्शः कण्टकादिस्पर्शः उपघातहेतूपनिपात इति यावत् , देहस्पर्शादिस्तदादिस्तत्प्रमुखः अनुग्रहहेतूपनिपात इति. यावत् देहस्पर्शादिस्तस्य संवित्तिः-तजनितसुखदुःखानुभूतिस्तया तथा / न यात्येवेति-अमूर्त मूर्ततां न यात्येवे. त्यादि पूर्वोक्तम् / अयुक्तिमत्-अनुभवबाधितम् अत एवानुचितमित्यर्थः। इयम्-देहस्पर्शादिसंवित्तिः / च-पुनः / अन्योन्यव्याप्तिजा-परस्पर. व्याप्तिजनिता गुडशुण्ठीद्रव्योरिव शरीरात्मनोर्जात्यन्तरतापत्तिप्रभवा। प्रतिप्रतीकं तदनुभवात् / इति-हेतोः / बन्धादि-प्रागुदीरितं बन्धमोक्षादि / सङ्गतम्-युक्तिमत् , इति / ___युक्तबैतत्-अविभागदर्शनात्, नरत्वादेरेकनिष्ठत्वेऽतिप्रसङ्गात् / एकत्वानवच्छेद्यपर्याप्तिप्रतियोगित्वरूपव्यासज्यवृत्तित्वे च सांख्यस्य भवेदपसिद्धान्तः / व्यासज्यवृत्तिजात्यनभ्युपगमात्, एकाश्रयत्वानुभव. विरोधात्, शरीराप्रत्यक्षेऽप्यन्धकारे नरत्वप्रतीत्यनुपपत्तेश्च / एवं तर्हि मानादयोऽपि. भवेयुः शरीरे, रूपादयोऽपि जीव इति चेत्-इष्टापत्तिस्वदाह सम्मती मीसिद्धसेन